This page has not been fully proofread.

[अर्था] २१
 
* सर्वलक्षणसङ्ग्रहः *
अयथार्थानुभवः- दुष्टसामग्रीजन्योऽनुभवः १ बाधितार्थविष-
यकानुभवः, यथा शुक्ताविदं रजतमिति ज्ञानम् ॥ ३५८ ॥
अयुतसिद्धिः-असम्बद्धयोरविद्यमानत्वम् ॥ ३५९ ॥
 
अयोनिजशरीरं शुकशोणितसन्निपातानपेक्षं शरीरम् ३६०
अरणिः-
घर्षणद्वाराग्निजनककाष्ठम् १ ऋच्छतीति २ ऋ अनिः
अरिः-स्वकृतापकारमनपेक्ष्य स्वभावकौर्येणापकर्ता ॥३६२॥
अर्थ:- ज्ञानविषयः १ एकैकेन्द्रियमात्रग्राह्यविशेषगुणः । २
अर्थ्यते प्रार्थते प्राणिभिरिति, यथा वित्तादिः ॥ ३६५ ॥
अर्थपुनरुक्तं - समानार्थकभिन्नानुपूर्वीकशब्दस्य निष्प्रयोजनं
पुनरभिधानम् यथा घटः कलश इति ॥ ३६६ ॥
अर्थवादः - विध्य ( धोनप्रवृत्त्युत्तम्भकत्वम् १ )समभिव्याहृतवा-
क्यम् २ प्रकरणप्रतिपाद्यस्य प्रशंसनम्, यथा येनाश्रुतं श्रुतं
भवतीत्यद्वितीयवस्तुप्रशंसनम् ३ प्राशस्त्यनिन्दान्यतरपरं वाक्यं
अर्थाध्यासः- प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टसजा-
तीयाध्यासः, यथा शुक्तौ रजताभ्यासः । स्मर्यमाणगङ्गादावभि-
नवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादिपदद्वयम् ३७१
अर्थाध्याहारः- आकाङ्क्षितार्थानुसन्धानम् ॥ ३७२ ॥
अर्थान्तरनिग्रहस्थानं-प्रकृतानुपयुक्तार्थकथनम्
अर्थापत्तिप्रमा- अन्यथानुपपन्नदर्शनादुपपादके
अनुपपद्यमानार्थज्ञानात्तदुपपादकीभूतार्थान्तरकल्पनम्, यथा
 
॥ ३७३ ॥
बुद्धिः १
 
>