This page has not been fully proofread.

२० [अभ्यु]
 
● सर्वलक्षणसङ्ग्रहः
 
अभिभवः- बलवत्सजातीय (संबन्धकृतमग्रहणम् १ ) तिरस्करणं
अभिमानत्वं परावज्ञाहेतुत्वम् १ आत्मन्युत्कर्षारोपत्वं वा ३४०
अभिमुखं-मुखस्य पुरो देशे १ अनुकूलार्थसंमुखी भवनम् ३४२
अभिलाषः-इष्टविषयक तृष्णा १प्रीत्याश्रयकर्तृक किञ्चिद्विषयकेच्छा
अभिवादनं - नामोच्चारणपूर्वकनमस्कारः १ पादस्पर्शपूर्वकन •
अभिव्यक्तिः-सूक्ष्मरूपेण स्थितस्य कारणस्य कार्यरूपेणावि-
र्भावः १ कार्यस्यास्ति प्रकाशते इति व्यवहारः ॥ ३४७ ॥
अभिव्यञ्जकः अस्तिव्यवहारजनकः १ 'व्यजक' लक्षणमप्यत्र प०
अभिहितानुपपत्तिः- अनुपपद्यमानसमग्रवाक्यश्रवणात्तदुप-
पाद की भूतार्थान्तरकल्पनम् यथा तरतिशोकमात्मविदिति
प्रमातृत्वादिबन्धस्य शोकोपलक्षितस्य ज्ञाननिवर्त्यत्वश्रवणा-
च्छोकस्य मिथ्यात्वमन्तरानुपपद्यमानाच्छोकस्य मिथ्यात्वकल्प-
नम्, यथा वा ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवाक्य-
>
 
श्रवणाददृष्टस्य प्रकल्पनम् ॥ ३४९ ॥
 
अभीष्टं - सत्कारपूर्वक कर्म *१ स्वकर्तव्यताप्रयोजकेच्छाविषयः ।
अभ्यागतत्वं-भिन्न स्थानीयत्वे सति स्वस्थानागतत्वम् ॥ ३५२॥
अभ्यासः पुनः पुनरनुशीलनम् १ ध्येये वस्तुनि चित्तस्य
स्थिरीकरणार्यो यत्नः * २ प्रकरणप्रतिपाद्यस्य पुनः पुनः
प्रतिपादनम्, यथा तत्त्वमसीति नवकृत्वोऽभ्यासः ॥३५५॥
अभ्युपगमवादः-वादिबलनिरीक्षणार्थमनिष्टस्यापि स्वीकरणं