This page has been fully proofread once and needs a second look.

न्धतादृश्यभिन्नत्वे सति प्रतियोगि(ज्ञानाधीनज्ञानविषय:४) सा-
पेक्षप्रतीतिविषयः। [घटाभावप्रमा भूतले जायते
<bold>अभावप्रमा-</bold> योग्यानुपलब्धिकरणिका प्रमा, यथा घटाद्यनुपलब्ध्या
<bold>अभिचारः -</bold> मारणोच्चाटनादिफलकतान्त्रिकप्रयोगविशेषः <error>३२१</error><fix>॥३२१॥</fix>
<bold>अभिज्ञाशाज्ञानं -</bold> इदन्तामात्रावगाहिज्ञानम् १ विषयसंबद्धेन्द्रि-
यजन्यं ज्ञानम्, यथाऽयं घटोऽयं पट इत्यादि ॥ ३२३ ॥
<bold>अभिधानत्वम्-</bold>अन्वयबोधफलकशब्द प्रयोग त्वम् ॥३२४॥
<bold>अभिधानविधिः-</bold>लिङ्गादिघटितं वाक्यम् ॥ ३२५ ॥
 
<bold>अभिधानानुपपत्तिः-</bold> अनुपपद्यमानवाक्यैकदेशश्रवणात्तदुप-
पाद की भूतार्थान्तर कल्पनम्, यथा द्वारभिमित्यस्य वाक्यैकदेशस्य
पिधेहीति पदार्थान्तरकल्पनमन्तरानुपपत्त्या तत्कल्पनम् <error>३२५
</error><fix>॥३२५॥</fix> <bold>अभिधेयः -</bold> वाक्यार्थः१ शास्त्रजप्रमानिवर्त्याज्ञानगोचरः <error>३२७
</error><fix>॥३२७॥</fix>
<bold>
अभिधेविधित्वं-</bold> कृतिसाध्यत्वे सतीष्टसाधनत्वम् ॥ ३२८॥
<bold>अभिनयः-</bold> अङ्गुल्यादिनिर्देशेन पदार्थ प्रकाशनम् ॥ ३२९ ॥
<bold>अभिनिवेशः -</bold> आयुरभावेप्येतैः शरीरेन्द्रियादिभिरनित्यैरपि
वियोगो मे माभूदित्याविद्वदङ्गनाबालं स्वभाविकः सर्वप्राणि-
साधारणी मरणत्रासः १ स्वीकृतस्य पुनस्त्यागासहिष्णुत्वम् ।
<bold>अभिन्नत्वं-<bold> भेदा (भावविशिष्टत्वम् १)नधिकरणत्वम् ॥३३३॥
अभिन्ननिमित्तोपादानं-निमित्तञ्च तदुपादानं चेति निमि-
तोपादानम्, अभिन्नञ्च तन्निमित्तोपादानं चेति ॥ ३३४ ॥
 
1