This page has been fully proofread once and needs a second look.

ग्रहणापाकरणसामर्थ्यम् २ सिद्धान्तप्रतिपक्षनिराकरणसामर्थ्यम्
</bold>अपौरुषेयत्वं-</bold> वाक़्यार्थज्ञानापेक्षोच्चारणकमात्रप्रत्त्यानुपूर्वीशू-
न्यत्वम् १ सजातीयोच्चारणानपेक्षोच्चारणकवृत्त्यानुपूर्वीरहित-
त्वं वा २ स्वानुपजीविप्रमाणजन्यसमानप्रकारविशेष्यकोच्चार-
णसापेक्षोञ्चारणविषयत्वम् ३ पूर्वकल्पीयानुपूर्वीसमानानुपूर्वी-
घटितत्वमिति वे० ४ स्वसजातीयोच्चारणसापेक्षोच्चारणसामा-
न्यकत्वम् ५ सम्प्रदायाविच्छेदत्वे अविच्छिन्नव्यवहारत्वे वा
सत्यस्मर्यमाणकर्तृकत्वम् । अज्ञातकर्तृके जीर्णकूपारामादौ व्य-
भिचारवारणाय संप्रदायाविच्छेदत्वे सतीति, भारतादिषु
व्यभिचारपरिहारायास्मर्यमाणकर्तृकत्वमिति मीमांसकाः
<bold>अप्रतिभानिग्रहस्थानं-</bold> उत्तरापरिस्फूर्ति: १ उत्तरार्हं परोकं
बुद्ध्वाप्युत्तरस्यास्फूर्तिवशात्तूष्णीम्भाव इति ग्रं० ॥ ३०९ ॥
</bold>अप्रामाण्यं-</bold>दोषसहकृतज्ञानसामग्रीजन्यम् १ तदभाववति तत्प्र-
कारकत्वम् । प्रमायामतिव्याप्तिवारणाय <bold>तदभावेति</bold> ॥३११॥
<bold>अबाध्यत्वम् -</bold> त्रैकालिकनिषेधाप्रतियोगित्वम् ॥ ३१२ ॥
<bold>अभयदानम्-</bold> अनन्तप्राणिगणानुग्रहकरं वसत्यादिदानमिति
जैनाः १मा भैषीरित्यादिशब्दप्रयोगपूर्वकं भयनिवारणम् <error>३१४</error><fix>॥३१४॥</fix>
<bold>अभानावरणं-</bold> न भातीत्याकारकाभानप्रयोजकीभूतमावरणम्
<bold>अभावः-</bold> +नञ्शब्दोल्लेखिप्रतीतिविषयः १ प्रतियो (ग्यारोपितसं.
पर्गजन्यप्रती० २) गिनिरूपणाधीननिरूपणक इति ग्रं० ३ संब-