This page has been fully proofread once and needs a second look.

१८ [अभा]
 
* सर्वलक्षणसङ्ग्रह: *
 
ग्रहणापाकरणसामर्थ्यम् २ सिद्धान्तप्रतिपक्षनिराकरणसामर्थ्यम्

</bold>
अपौरुषेयत्वं-</bold> वाक़्यार्थज्ञानापेक्षोच्चारण कमात्र
कमात्रप्रत्त्यानुपूर्वीशू-

न्यत्वम् १ सजातीयोच्चारणानपेक्षोच्चारण कवृत्त्यानुपूर्वीरहित-

त्वं वा २ स्वानुपजीविप्रमाणजन्यसमानप्रकार विशेष्यकोच्चार-

णसापेक्षोञ्चारणविषयत्वम् ३ पूर्वकल्पीयानुपूर्वीसमानानुपूर्वी-

घटितत्वमिति वे० ४ स्वसजातीयोच्चारणसापेक्षोच्चारणसामा-

न्यकत्वम् ५ सम्प्रदायात्रिविच्छेदत्वे अविच्छिन्नव्यवहारत्वे वा

सत्यस्मर्यमाण कर्तृकत्वम् । अज्ञातकर्तृके जीर्णकूपारामादौ व्य-

भिचारवारणाय संप्रदायाविच्छेदत्वे सतीति, भारतादिषु

व्यभिचारपरिहारायास्मर्यमाणकर्तृकत्वमिति मीमांसकाः

<bold>
अप्रतिभानिग्रहस्थानं-
</bold> उत्तरापरिस्फूर्ति: १ उत्तरार्हं परोकं

बुद्धाध्वाप्युत्तरस्यास्फूर्तिवशात्तूष्णीम्भाव इति ग्रं० ॥ ३०९ ॥

</bold>
अप्रामाण्यं-</bold>दोषसहकृतज्ञानसामग्रीजन्यम् १ तदभाववति तत्प्र-

कारकत्वम् । प्रमायामतिव्याप्तिवारणाय <bold>तदद्भावेति</bold> ॥३११॥

<bold>
अबाध्यत्वम् -</bold> त्रैकालिकनिषेधाप्रतियोगित्वम् ॥ ३१२ ॥

<bold>
अभयदानम्-</bold> अनन्तप्राणिगणानुग्रहकरं वसत्यादि दानमिति

जैनाः १मा भैषीरित्यादिशब्दप्रयोगपूर्वकं भयनिवारणम्३१४

<bold>
अभानावरणं-</bold> न भातीत्याकारकाभान प्रयोजकी भूतमावरणम्

<bold>
अभावः-</bold> +नञ्शब्दोल्लेखिप्रतीतिविषयः १ प्रतियो (ग्यारोपितसं.

पर्गजन्य प्रती० २) गिनिरूपणाधीननिरूपणक इति ग्रं० ३ संब-