This page has been fully proofread once and needs a second look.

<bold>अपवाद:-</bold> अधिष्टाने भ्रान्त्या प्रतीतस्याधिष्ठानव्यतिरेकेणा-
भावनिश्चयः, यथा शुक्त्यादौ भ्रान्त्या प्रतीतस्य रजतादेः
शुक्तिव्यतिरेकेण नेदं रजतं किन्तु शुक्तिरित्यभावनिश्चयः १
अध्यारोपितस्याधिष्ठानमात्रपर्यवशेषणम् ॥ २८५ ॥
<bold>अपसिद्धान्तनिग्रहस्थानं-</bold> एकसिद्धान्तमतमाश्रित्य कथाप्र-
वृत्तौ तद्विरुद्धसिद्धान्तमतमालम्ब्योत्तरदानम् ॥ २८६ ॥
<bold>अपादानत्वं-</bold> अवधिभूतत्वम् १ परकीयक्रियाजन्यविभागाश्रय-
त्वम् । वृक्षात्पर्ण पततीत्यादौ पर्णादेरपादानत्ववारणाय पर-
कोयेति २ क्रियानाश्रयत्वे सति तज्जन्यविभागाश्रयत्वम् २८९
<bold>अपार्थः -</bold> प्रत्येकवाक्यानामन्वितार्थत्वेपि यत्समुदायार्थशून्यः ।
<bold>अपूर्व-</bold> न पूर्वं दृष्टम् १ क्रियाजन्यकालान्तरभाविफलाव्यवहितपूर्वस्थं
<bold>अपूर्वता-</bold> प्रकरणप्रतिपाद्यस्य मानान्तराविषयता, यथा तन्त्वौ-
पनिषद् मित्यद्वितीयवस्तुन उपनिषदतिरिक्तमानाविषयता <error>२९३
</error><fix>॥२९३॥
</fix>
<bold>अपूर्वविधिः-</bold>प्रमाणान्तरेणात्यन्ताप्राप्तार्थविधायको विधिः,
यथा व्रीहीन्प्रोक्षतीति व्रीहिप्रोक्षणविधिः ॥ २९४ ॥
<bold>अपेक्षा-</bold> प्रयोजकजिज्ञासा १ स्वल्पेच्छाविषयः*२विशेष्यविशेष-
णयोरन्योन्याभिसंबन्धः ३ कार्यनिमित्तयोरन्योन्याभिसंबन्धः ।
<bold>अपेक्षाबुद्धिः -</bold> विनाशकविनाशप्रतियोगिनी बुद्धिः १ अनेकै-
कत्वविषयिणी बुद्धिरिति ग्रन्थान्तरे ॥ २९८ ॥
<bold>अपोहः-</bold> प्रतिकूलतर्केण प्रकृततर्कापिनयनम् १ शिष्यस्य मिथ्या-