This page has not been fully proofread.

● सर्वलक्षणसङ्ग्रहः *
 
*
 
[अपो] १७
 
अपवाद:- अधिष्टाने भ्रान्त्या प्रतीतस्याधिष्ठानव्यतिरेकेणा-
भावनिश्चयः, यथा शुक्त्यादौ भ्रान्त्या प्रतीतस्य रजतादेः
शुक्तिव्यतिरेकेण नेदं रजतं किन्तु शुक्तिरित्यभावनिश्चयः १
अध्यारोपितस्याधिष्ठानमात्रपर्यवशेषणम् ॥ २८५ ॥
अपसिद्धान्तनिग्रहस्थानं एकसिद्धान्तमतमाश्रित्य कथाप्र-
वृत्तौ तद्विरुद्धसिद्धान्तमतमालम्ब्योत्तरदानम् ॥ २८६ ॥
अपादानत्वं अवधिभूतत्वम् १ परकीयक्रियाजन्यविभागाश्रय-
त्वम् । वृक्षात्पर्ण पततीत्यादौ पर्णादेरपादानत्ववारणाय पर-
कोयेति २ क्रियानाश्रयत्वे सति तज्जन्यविभागाश्रयत्वम् २८९
अपार्थः - प्रत्येकवाक्यानामन्वितार्थत्वेपि यत्समुदायार्थशून्यः ।
अपूर्व-न पूर्व दृष्टम् १ क्रियाजन्यकालान्तरभाविफलाव्यवहितपूर्वस्थं
अपूर्वता प्रकरणप्रतिपाद्यस्य मानान्तराविषयता, यथा तन्त्वौ-
पनिषद् मित्यद्वितीयवस्तुन उपनिषदतिरिक्तमानाविषयता २९३
अपूर्वविधिः-प्रमाणान्तरेणात्यन्ताप्राप्तार्थविधायको विधिः,
यथा व्रीहीन्प्रोक्षतीति व्रीहिप्रोक्षणविधिः ॥ २९४ ॥ ६
अपेक्षा प्रयोजकजिज्ञासा १ स्वल्पेच्छाविषयः*२विशेष्यविशेष-
णयोरन्योन्याभिसंबन्धः ३ कार्यनिमित्तयोरन्योन्याभिसंबन्धः ।
अपेक्षाबुद्धिः - विनाशकविनाशप्रतियोगिनी बुद्धिः १ अनेकै-
कत्वविषयिणी बुद्धिरिति ग्रन्थान्तरे ॥ २९८ ॥
अपोहः- प्रतिकूलतर्केण प्रकृततर्कापिनयनम् १ शिष्यस्य मिथ्या-
-