This page has been fully proofread once and needs a second look.

<bold>अन्वयदृष्टान्तः-</bold>साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सः <error>२५८</error><fix>॥२५८॥</fix>
<bold>अन्वयव्यभिचार:-</bold>कारणसत्त्वे कार्याभावः १ स्वाधिकरणवृ -
त्यत्यन्ताभावप्रतियोगिकार्यकत्वम् २ स्वेतरयावत्कारणाधिकर०
<bold>अन्वयव्याप्तिः-</bold> हेतुसाध्ययोर्व्याप्तिः १ हेतुसमानाधिकरणा-
त्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् ॥ २६३ ॥
<bold>अन्वयसहचारः -</bold>कारणसत्त्वे कार्यसत्त्वम् ॥ २६४ ॥
 
<bold>अपकर्ष:- </bold>विद्यमानधर्मापचयः १ उचितधर्मापेक्षातो हीनता ।
<bold>अपकारत्वं- </bold>अनिष्टोत्पादनत्वम् १ दुःखजनकव्यापारत्वं वा ।
<bold>अपक्षयः-</bold> अवयवहासः १उन्नतिशून्यत्वमपश्चयत्वम् ॥२७० ॥
<bold>अपश्चीकरणम्-</bold> स्वेतरभूतचतुष्टयामिश्रीकरणम् ॥ २७१ ॥
<bold>अपदेशः - </bold> अन्य (प्रकाश्यान्यस्य करणम् १ ) दुद्दिश्यान्यार्थमनुष्ठानं
<bold>अपभ्रंशः -</bold> साधुशब्दस्य शक्तिवैफल्यप्रयुक्तान्यथोच्चारणयुक्तोऽ
<bold>अपरत्वं-</bold>अपरव्यवहारासाधारणकारणम् । [पशब्द:
<bold>अपरवैराग्यम्-</bold>ब्रह्मज्ञानान्यविषयवैतृष्ण्यम् ॥ २७५ ॥
<bold>अपरसामान्यत्वं-</bold> व्याप्यत्वम् १ न्यूनदेशवृत्तित्वम् <error>२७७</error><fix>॥२७७॥</fix>
<bold>अपराधः-</bold> दण्डयोग्यकर्मकरणम् १स्वोचितकर्माकरणमिति ग्रं०
<bold>अपरिग्रहः-</bold>समाध्यनुष्ठानानुपयुक्तस्य वस्तुमात्रस्यासङ्ग्रहः १ वि-
 
षयाणामर्जनरक्षणक्षयसङ्गहिंसारूपदोषदर्शनादस्त्रीकरणमिति
ग्रं० २देहयात्रानिर्वाहकातिरिक्तभोगसाधनानामनङ्गीकारः <error>२८२</error><fix>॥२८२॥</fix>
<bold>अपरोक्षज्ञानं-</bold> विषयचित्तादात्म्यापन्नं प्रमाणचैतन्यम् २८३