This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
१६ [अप]
<bold>अन्वयदृष्टान्तः
 
-
-</bold>साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सः २५८

<bold>
अन्वयव्यभिचार:- </bold>कारणसत्त्वे कार्याभावः १ स्वाधिकरणव-
वृ -
त्यत्यन्ताभावप्रतियोगि कार्यकत्वम् २ स्वेतर यावत्कारणाधिकर०

<bold>
अन्वयव्याप्तिः-
</bold> हेतुसाध्ययोर्व्याप्तिः १ हेतुसमानाधिकरणा-

त्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् ॥ २६३ ॥

<bold>
अन्वयसहचारः - </bold>कारणसत्त्वे कार्यसत्त्वम् ॥ २६४ ॥
 

 
<bold>
अपकर्ष:- </bold>विद्यमानधर्मापचयः १ उचितधर्मापेक्षातो हीनता ।

<bold>
अपकारत्वं- </bold>अनिष्टोत्पादनत्वम् १ दुःखजनकव्यापारत्वं वा ।

<bold>
अपक्षयः-</bold> अवयवहासः १उन्नतिशून्यत्वमपश्चयत्वम् ॥२७० ॥

<bold>
अपश्चीकरणम्-</bold> स्वेतरभूतचतुष्टयामिश्रीकरणम् ॥ २७१ ॥

<bold>
अपदेशः - </bold> अन्य (प्रकाश्यान्यस्य करणम् १ ) दुद्दिश्यान्यार्थमनुष्ठानं

<bold>
अपभ्रंशः -</bold> साधुशब्दस्य शक्तिवैफल्य प्रयुक्तान्यथोच्चारणयुक्तोऽ

<bold>
अपरत्वं -</bold>अपरव्यवहारासाधारणकारणम् ।
[पशब्द:
<bold>
अपरवैराग्यम्-</bold>ब्रह्मज्ञानान्यविषयवैतृष्ण्यम् ॥ २७५ ॥

<bold>
अपरसामान्यत्वं-</bold> व्याप्यत्वम्
१ न्यूनदेशवृत्तित्वम् २७७
<bold>
अपराधः-</bold> दण्डयोग्यकर्मकरणम् १स्वोचितकर्माकरणमिति ग्रं०

<bold>
अपरिग्रहः-</bold>समाध्यनुष्ठानानुपयुक्तस्य वस्तुमात्रस्यासङ्ग्रहः १ वि-
[पशब्द:
 
१ न्यूनदेशवृत्तित्वम् २७७
 

 
षयाणामर्जनरक्षणक्षयसङ्गहिंसारूपदोषदर्शनादस्त्रीकरणमिति

ग्रं० २देहयात्रा निर्वाहकातिरिक्तभोगसाधनानामनङ्गीकारः २८२

<bold>
अपरोक्षज्ञानं-</bold> विषयचित्तादात्म्यापन्नं प्रमाणचैतन्यम् २८३