This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[अन्व] १५
 
भानमिति प्रं० ३ तदभाववति तत्प्रकारकभानम् ॥ २४२ ॥

<bold>
अन्यथानुपपत्तिः -</bold>स्वाभावप्रयोज्यासंभवः १ उपपादकाभा-

वप्रयोज्योपपाद्यासंभवः ।
 
[ बाह्यत्वं
 

<bold>
अन्यथासिद्धिः-</bold> यस्यकारणतां विनापि सिद्धिः १कारणसामग्री-

<bold>
अन्यथोपपत्तिः -</bold> वैपरीत्येनोपपत्तिसाम्यम् १ उपपादकत्वेना-

भिमतधर्म विनाऽप्युपपाद्यस्योपपत्तिः ॥ २४८ ॥

<bold>
अन्योन्याध्यासः-</bold> अन्योन्यस्मिन्नन्योन्यतादात्म्यस्याध्यासः ।

<bold>
अन्योन्याभावः-</bold> तादात्म्य (भावः १) संबन्धावच्छिन्न प्रतियो-
प्रतियो-
गिताकोऽभावः । प्रागभावप्रध्वंसाभाववारणाय तादात्म्ये-

ति २ अत्यन्ताभावव्यतिरिक्तत्वे सत्यनवधिरभावः ॥ २५२ ॥

<bold>
अन्योन्याश्रयः-</bold> स्वापेक्षापेक्षित्वनिबन्धनप्रसङ्गः १ स्वग्रह सापे-

क्षयहसापेक्षग्रहकः,यथा महिषभिन्नत्वं गोत्वं गोभिन्नत्वञ्च महि

षत्वमित्येवं लक्षणे, गोत्वज्ञानाय महिषत्वज्ञानापेक्षा, महिषत्व-

ज्ञानाय च गोत्वज्ञानापेक्षेति २ अन्योन्यस्या (श्रयणम् ३) व्यव-

हितान्योन्यापेक्षित्वम् । आत्माश्रयव्यावृत्त्यर्थमन्योन्यस्येति

<bold>
अन्वयः - </bold>परस्परमर्थागमः १ यत्सत्त्वे यत्सत्त्वम्, यथा सर्व-

प्राणिहिंसनशीलित्वे सति पशुत्वाकृतिविशिष्टा काचनव्यक्ति-

र्यत्र यत्र भवति, तत्र तत्र सिंहपदवाच्यता २ स्वसत्तानिय-

तसत्तावत्कार्यसम्बन्धः ॥ २५७ ॥
 

 
[^
१ स्वग्रह: स्वज्ञानम् तस्य सापेक्षोऽपेक्षाकारी यो ग्रहस्तस्य

सापेक्षोऽपेक्षाकारी ग्रहो शा ज्ञानं यस्य स इति ।
 
]