This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
अनुपादेयत्वं-स्वकृतिसाध्यत्वविरहः ॥ १७६ ॥
अनुबन्धः स्वविषयकज्ञानद्वारा शास्त्रे प्रवर्तकः १ श्रोतृप्रवृत्त्यर्थ
प्रन्थादावनुबध्यमानः २मङ्गलाचरणाव्यवहितोत्तरमेव प्रन्यादा-
बनुबध्यमान इति पुस्तकान्तरे ३ ग्रन्थ प्रवृत्तिप्रयोजकज्ञानविषयः
अनुभूतः - अनुभवविषयीभूतपदार्थः । [स्यान्यत्र ज्ञानं
 
अनुभूयमानारोपः- प्रत्यक्षानुभव विषयारोपः१ अन्यत्रानुभूत-
अनुमतं - साधुकृतमनेने त्याद्यनुमोदनरूपमानसपरिणामप्रदर्शनं
अनुमानं- अनुमीयतेऽनेनेति १ व्याप्तिपक्षधर्मता विशिष्टलिङ्ग-
ज्ञानम् २ अनुमितिकरणम् । कुठारादावतिव्याप्तिवारणायानु-
मितीति, प्रत्यक्षादावतिव्याप्तिवारणायान्विति४ स्वजन्यव्या-
पार ( द्वाराऽनुमिते ०) वत्तासंबन्धेनानुमितेरसाधारणकारणम्
अनुमितिः - व्याप्तिज्ञानकरणकं ज्ञानम् १ परामर्शजन्यं ज्ञानम् ।
प्रत्यक्षादाव तिव्याप्तिवारणाय परामर्शजन्य मिति, परामर्श-
ध्वंसवारणाय ज्ञानमिति २ लिङ्गज्ञानजन्यं ज्ञानम् ३ व्याप्यज्ञा-
नाट्यापकज्ञानं वा ४ साधनधर्मदर्शनात्साध्यधर्मविशिष्टे बुद्धिः ।
अनुयोगी-यस्मिनभावोऽस्ति सः १ अनु पश्चाद् योगः संबन्धो
 
यस्य सः २ विशिष्टप्रतीतिविषय विशेष्यत्वमनुयोगित्वम् ॥१९६॥
 
१२ [अनु]
 
अनुवादः - भाषान्तरीयवाक्यार्थस्य भाषान्तरीयवाक्येन बोध-
नम् *१उक्तस्य पुनर्वचनम्, यथा जुहोति जुहोतीत्यादि २