This page has been fully proofread once and needs a second look.

<bold>अनुकूलत्वं-</bold>स्वपक्षपातित्वम् १ कार्यसहकारिकारणत्वमिति ग्रं०
<bold>अनुक्रमः- </bold>कमानतिक्रमः ॥ १६१ ॥
<bold>अनुगतत्वं-</bold>एकत्वे सत्यनेकवृत्तित्वम् ॥ १६२ ॥
<bold>अनुगमः - </bold>एकस्यानेकत्र संबन्धः १ अनुगतप्रवृत्तिनिमित्तकत्वं
<bold>अनुग्रहः - </bold>अभीष्टसम्पादको व्यापारः १ दुःखिनो दुःखापा-
करणे प्रवृत्तिर्वा २ अनिष्टवारणपूर्वकेष्टसाधनेच्छा ॥ १६७ ॥
<bold>अनुज्ञा-</bold>निषेधाभावव्यञ्जिकेच्छा १ कर्तुरिष्टत्वे सति वञ्त्र्कनुमतत्वं
<bold>अनुद्भूतत्वं-</bold> प्रत्यक्षत्वाप्रयोजकत्वम् १ अतीन्द्रिय़विशेषगुणत्वम्
<bold>अनुपलब्धिप्रमाणं-</bold> योग्यत्वे सत्यनुपलम्भोऽभावप्रमाकर-
णम् । अयोग्यभूतललग्नसलिलानुपलम्भनिरासाय योग्येति, यो-
ग्यस्योपलम्भनिरासायानुपलम्भेति १ ज्ञानकरणाजन्याभावा-
नुभवासाधारणकारणम् । अदृष्टादौ साधारणकारणेऽतिव्याप्ति-
वारणायासाधारणेति, ज्ञानकरणाजन्यघटादिभावपदार्थप्र-
त्यक्षानुभवासाधारणकारणे चक्षुरादावतिव्याप्तिवारणायाभा-
वेति, अभावस्मृतिहेतौ संस्कारेऽतिव्याप्तिवारणायानुभवेति,
अयं विद्याफलकधर्माभाववान्मूर्खत्वादित्याद्यतीन्द्रियाभावानुभ-
वहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तविशेषणम् <error>१७३</error><fix>॥१७३॥</fix>
 
<bold>अनुपसंहारित्वं-</bold> अत्यन्ताभावाप्रतियोगित्वविशिष्टसाध्यादि-
कत्वम् १ किञ्चिद्विशेष्यकनिश्चयाविषयसाधकत्वे सति किञ्चिद्वि-
शेष्यकनिश्चयाविषयसाध्याभावकत्वम् ॥ १७५ ॥