This page has been fully proofread once and needs a second look.

* सवलक्षणसङ्ग्रहः *
 
[अनु] ११
 
-
 

 
<bold>अनुकूलत्वं -</bold>स्वपक्षपातित्वम् १ कार्यसहकारिकारणत्वमिति ग्रं०

<bold>
अनुक्रमः- </bold>कमानतिक्रमः ॥ १६१ ॥

<bold>
अनुगतत्वं- </bold>एकत्वे सत्यनेकवृत्तित्वम् ॥ १६२ ॥

<bold>
अनुगमः - </bold>एकस्यानेकत्र संबन्धः १ अनुगतप्रवृत्तिनिमित्तकत्वं

<bold>
अनुग्रहः - </bold>अभीष्टसम्पादको व्यापारः १ दुःखिनो दुःखापा-

करणे प्रवृत्तिर्वा २ अनिष्टवारणपूर्वकेष्टसाधनेच्छा ॥ १६७ ॥
अनुशा-

<bold>अनुज्ञा-</bold>
निषेधाभावव्यञ्जिकेच्छा १ कर्तुरिष्टत्वे सति वञ्त्र्कनुमतत्वं

<bold>
अनुद्भूतत्वं-</bold> प्रत्यक्षत्वाप्रयोजकत्वम् १ अतीन्द्रिय़ विशेषगुणत्वम्

<bold>
अनुपलब्धिप्रमाणं-</bold> योग्यत्वे सत्यनुपलम्भोऽभावप्रमाकर-

णम् । अयोग्यभूतललग्नसलिलानुपलम्भनिरासाय योग्येति, यो-

ग्यस्योपलम्भनिरासायानुपलम्भेति १ ज्ञान करणाजन्याभावा-

नुभवासाधारणकारणम् । अदृष्टादौ साधारण कारणेऽतिव्याप्ति-

वारणायासाधारणेति, ज्ञानकरणाजन्यघटादिभावपदार्थप्र-

त्यक्षानुभवासाधारण कारणे चक्षुरादावतिव्याप्तिवारणायाभा-

वेति, अभावस्मृतिहेतौ संस्कारेऽतिव्याप्तिवारणायानुभवेति,

अयं विद्याफलकधर्माभाववान्मूर्खत्वादित्याद्यतीन्द्रियाभावानुभ-

वहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तविशेषणम् १७३
 

 
<bold>
अनुपसंहारित्वं-</bold> अत्यन्ताभावाप्रतियोगित्वविशिष्टसाध्यादि-

कत्वम् १ किञ्चिद्विशेष्य कनिश्चयाविषयसाधकत्वे सति किञ्चिद्वि-

शेष्यक निश्चयाविषयसाध्याभावकत्वम् ॥ १७५ ॥