This page has not been fully proofread.

* सवलक्षणसङ्ग्रहः *
 
[अनु] ११
 
-
 

 
अनुकूलत्वं स्वपक्षपातित्वम् १ कार्यसहकारिकारणत्वमिति ग्रं०
अनुक्रमः- कमानतिक्रमः ॥ १६१ ॥
अनुगतत्वं- एकत्वे सत्यनेकवृत्तित्वम् ॥ १६२ ॥
अनुगमः - एकस्यानेकत्र संबन्धः १ अनुगतप्रवृत्तिनिमित्तकत्वं
अनुग्रहः - अभीष्टसम्पादको व्यापारः १ दुःखिनो दुःखापा-
करणे प्रवृत्तिर्वा २ अनिष्टवारणपूर्वकेष्टसाधनेच्छा ॥ १६७ ॥
अनुशा-निषेधाभावव्यञ्जिकेच्छा १ कर्तुरिष्टत्वे सति वऋनुमतत्वं
अनुद्भूतत्वं प्रत्यक्षत्वाप्रयोजकत्वम् १ अतीन्द्रिय़ विशेषगुणत्वम्
अनुपलब्धिप्रमाणं- योग्यत्वे सत्यनुपलम्भोऽभावप्रमाकर-
णम् । अयोग्यभूतललग्नसलिलानुपलम्भनिरासाय योग्येति, यो-
ग्यस्योपलम्भनिरासायानुपलम्भेति १ ज्ञान करणाजन्याभावा-
नुभवासाधारणकारणम् । अदृटादौ साधारण कारणेऽतिव्याप्ति-
वारणायासाधारणेति, ज्ञानकरणाजन्यघटादिभावपदार्थप्र-
त्यक्षानुभवासाधारण कारणे चक्षुरादावतिव्याप्तिवारणायाभा-
वेति, अभावस्मृतिहेतौ संस्कारेऽतिव्याप्तिवारणायानुभवेति,
अयं विद्याफलकधर्माभाववान्मूर्खत्वादित्याद्यतीन्द्रियाभावानुभ-
वहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तविशेषणम् १७३
 
अनुपसंहारित्वं- अत्यन्ताभावाप्रतियोगित्वविशिष्टसाध्यादि-
कत्वम् १ किञ्चिद्विशेष्य कनिश्चयाविषयसाधकत्वे सति किञ्चिद्वि-
शेष्यक निश्चयाविषयसाध्याभावकत्वम् ॥ १७५ ॥