This page has been fully proofread once and needs a second look.

१० [अनु]
 
* सर्वलक्षणसङ्ग्रह: *
 
यथा भेदः किं ? भिन्ने धर्मिणि वर्त्ततेऽभिन्ने वा, आद्येपि केन

भेदेन भिन्ने कस्य भेदस्यावस्थितिरिति प्रश्ने द्वितीयभेदभिन्ने

धर्मिणि प्रथमस्य, तृतीयभेदभिन्ने द्वितीयस्य, चतुर्थभेदभिन्ने

तृतीयस्य, एवं तत्र तत्रापीत्यङ्गीकारे ॥ १३७ ॥

<bold>
अनागतत्वं- </bold>भविष्यच्छब्दजन्यप्रतीतिविषयत्वम् ॥ १३८ ।

<bold>
अनात्मभूतलक्षणं- </bold>यल्लक्षणं वस्तुस्वरूपाननुप्रविष्टम् यथा

दण्डो दण्डिन इति जैनाः ॥ १३९ ॥
 

<bold>
अनादः -दरः -</bold> आदरशून्यः १ यथाकथञ्चित्प्रवृत्ति रनुत्साह इति मं०

<bold>
अनादिः - </bold>उत्पत्तिरहितः १ सजातीयप्रयोगपूर्वकः २ नास्त्या-

दिः प्राथमिको यस्मात् ।
[ यस्य
 

<bold>
अनिकेतः-</bold>नियतनिवासशून्यः १ नास्ति निकेतः नियमेन वासो

<bold>
अनिच्छाप्रारब्धं-</bold> अकस्माजायमानम्, यथा कण्टकवेधादि १

इच्छां विना 'जायमानम् ॥ १४८ ॥
 

 
<bold>
अनित्यत्वं-</bold> त्रैकालिकनिषेधप्रतियोगित्वम् १ ध्वंसप्रतियोगि ( त्वे

सति प्रागभावप्र० २) वृत्तित्वविशिष्टसत्तायोगित्वम् ॥ १५१ ॥

<bold>
अनिर्वचनीयः-</bold> सदसद्विलक्षणः १ निर्वक्तुमयोग्यः ॥१५३ ॥

<bold>
अनिर्वचनीयख्यातिः -</bold> संदसदादिप्रकारैरनिर्वाच्यस्यैवाध्य-

स्तपदार्थस्य भानम् ॥ १५४ ॥
 
.
 
[ नुपूर्वीमान्
 
अनिप्रु

 
<bold>अनिष्ठ
झसङ्गः-</bold> अनभिमतार्थापादनम् ।
[ नुपूर्वीमान्
<bold>
अनुकरणं-</bold>सदृशक्रियादिकरणम् १ अनु (क्रियतेनेन २ ) कार्यनिष्ठा-
p