This page has been fully proofread once and needs a second look.

वाऽनात्माध्यासो द्वितीयस्तु स्फटिके लौहित्यस्य शङ्गे पीतिम्रोऽ
नात्मनि चात्मतद्धर्मादेः, आत्मादेः पारमार्थिकत्वेन स्वरूपतोऽ
ध्यासाभावात् । अथवा, प्रकारान्तरेण सोपाधिकोनिरुपाधिक-
श्चेति भेदादध्यासो द्विविधः । द्विविधोप्यसौ बाह्याभ्यन्तरभेदा-
त्पुनर्द्विविधः । तत्र लोहितस्फटिकादिर्बाह्यः सोपाधिको भ्रमः,
जपाकुसुमादेरुपाधित्वात् । कर्तृत्वादिर्भ्रम आन्तरः, कर्मरूपेण
परिणताऽविद्यारूपोपाधिकार्यत्वात् । शुक्तिरूप्यादिस्तु बाह्यो
निरुपाधिको भ्रमः । आकाशादिभ्रमोऽपि बाह्यो निरुपाधिकः ।
अहमज्ञो ब्रह्म न जानामीत्याद्याभ्यन्तरो निरुपाधिको भ्रमः ।
इत्यादीनि बोद्धव्यानि, विस्तरस्तु गुरुमुखादेवावगन्तव्यः <error>१२७</error><fix>॥१२७॥</fix>
<bold>अध्याहारः-</bold> प्रकृतोपयोगिशब्दकल्पनम् १ अस्पष्टार्थवाक्यस्य
शब्दान्तरकल्पनाद्वारा स्पष्टकरणम् २ अश्रुतपदानुसंधानम्
<bold>अध्वर्यु:-</bold>कर्मारम्भसमाप्तिकर्ता १ अध्वरं यातीति २ युनक्तीति ।
<bold>अनवस्था-</bold>अप्रामाणिकानन्तप्रवाहमूलकप्रसङ्गः १ उपपाद्योपपा-
दकप्रवाहोऽनवधिः । चक्रकव्यावृत्त्यर्थमनवधिरिति, साकाङ्क्ष
तापरिहारायोपपाद्योपपादकेति २ अव्यवस्थितपरम्परा-
रोपोपाधिनोऽनिष्टप्रसङ्गः ३ पूर्वस्योत्तरोत्तरापेक्षित्वम् ४ सा
द्विविधा, अधो धावन्त्यूर्द्धं धावन्ती चेति । तत्राघो धावन्ती
यथा घटजनने कपालापेक्षा, कपालजनने कपालिकायास्त-
ज्जनने च तदवयवानामपेक्षा एवं तत्र तत्रेति । ऊर्द्धं धावन्ती