This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः *
 
[अन] ९
 
वाऽनात्माध्यासो द्वितीयस्तु स्फटिके लौहित्यस्य शङ्गे पीतिम्रोऽ
नात्मनि चात्मतद्धर्मादेः, आत्मादेः पारमार्थिकत्वेन स्वरूपतोऽ
ध्यासाभावात् । अथवा, प्रकारान्तरेण सोपाधिकोनिरुपाधिक-
श्चेति भेदादध्यासो द्विविधः । द्विविधोप्यसौ बाह्याभ्यन्तरभेदा-
त्पुनर्द्विविधः । तत्र लोहितस्फटिकादिर्बाह्यः सोपाधिको भ्रमः,
जपाकुसुमादेरुपाधित्वात् । कर्तृत्वादिम आन्तरः, कर्मरूपेण
परिणताऽविद्यारूपोपाधिकार्यत्वात् । शुक्तिरूप्यादिस्तु बाह्यो
निरुपाधिको भ्रमः । आकाशादिभ्रमोऽपि बाह्यो निरुपाधिकः ।
अहमज्ञो ब्रह्म न जानामीत्याद्याभ्यन्तरो निरुपाधिको भ्रमः ।
इत्यादीनि बोद्धव्यानि, विस्तरस्तु गुरुमुखा देवावगन्तव्यः १२७
अध्याहारः- प्रकृतोपयोगिशब्दकल्पनम् १ अस्पष्टार्थवाक्यस्य
शब्दान्तरकल्पनाद्वारा स्पष्टकरणम् २ अश्रुतपदानुसंधानम्
अध्वर्यु:-कर्मारम्भसमाप्तिकर्ता १ अध्वरं यातीति २ युनक्तीति ।
अनवस्था-अप्रामाणिकानन्तप्रवाहमूलकप्रसङ्गः १ उपपाद्योपपा-
दकप्रवाहोऽनवधिः । चक्रकव्यावृत्त्यर्थमनवधिरिति, साकाङ्क्ष
तापरिहारायोपपाद्योपपादकेति २ अव्यवस्थितपरम्परा-
रोपोपाधिनोऽनिष्टप्रसङ्गः ३ पूर्वस्योत्तरोत्तरापेक्षित्वम् ४ सा
द्विविधा, अधो धावन्त्यू धावन्ती चेति । तत्राघो धावन्ती
यथा घटजनने कपालापेक्षा, कपालजनने कपालिकायास्त-
जनने च तदवयवानामपेक्षा एवं तत्र तत्रेति । ऊर्द्ध धावन्ती