This page has been fully proofread once and needs a second look.

मी०२ गुरुमुख (तः शास्त्रार्थज्ञानम् ३) ञ्चारणानुसायुंच्चारणम्
<bold>अध्यस्तत्वं-</bold>संप्रयोगसंस्कारजन्यत्वे सति प्रत्यभिज्ञाभिन्नत्वम्।
<bold>अध्यात्मशास्त्रं-</bold>आत्मानमधिकृत्य प्रवृत्तं शास्त्रम् ॥ ११८ ॥
<bold>अध्यात्मं-</bold>आत्म (संबन्धित्वमध्यात्मत्वम् १ ) [नं देहेन्द्रियादिकं
क्षेत्रज्ञं ब्रह्म वाधिकृत्य वर्तमानम् । [ तादे:
<bold>अध्यारोपः-</bold> वस्तुन्यवस्त्वारोपः, यथा शुक्तिकाशकलादौ रज-
<bold>अध्यासः-</bold>परत्र परा[^१]वभासः १ अधिष्ठानविषमसत्ताकावभास
इति परिमले २ एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाव-
वत्यवभासः । स्वात्यन्ताभाववत्यवभास एतावन्मात्रोक्तौ यत्र
भूतलादौ घटोऽपसारितः पुनश्चानीतस्तादृशघटादावतिप्रसङ्गः
स्यादिति स्वसंसृज्यमान इत्युक्तम्, एवमपि मूलावच्छेदेन
कपिसंयोगात्यन्ताभाववति वृक्षे शाखाप्रावच्छेदेन च तत्सं-
सृज्यमानेऽवभासमानत्वात्संयोगस्य तत्रातिप्रसङ्गः स्यादित्यत
एकावच्छेदेनेति ३ दोषजन्यत्वे (सति संस्कारजन्यः ४ ) स-
त्यधिष्टानसामान्यज्ञानजन्यः ५ पारमार्थिकत्वावच्छिन्नस्वात्य-
न्ताभावाधिकरणे प्रतीयमान इति तत्त्वविवेके ६ स द्विविधो
ज्ञानाध्यासोऽर्थाध्यासश्च । यद्वा स्वरूपाध्यासः संसर्गाध्यासश्चे-
ति द्विविधोध्यासः । तत्राद्यो रज्ज्वादौ भुजङ्गाद्यध्यास आत्मनि
[^१ अवभासते इत्यवभास इति व्युत्पत्त्याऽवभासशब्दोऽर्थाध्यासपरः,
अवभासतेऽर्थः (=रजतादिः) अनेनेति व्युत्पत्त्या च ज्ञानाध्यासपरः ।
]