This page has been fully proofread once and needs a second look.

८ [अध्या]
 
* सर्वलक्षणसङ्ग्रहः *
 
मी०२ गुरुमुख (तः शास्त्रार्थज्ञानम् ३) ञ्चारणानुसायुंच्चारणम्

<bold>
अध्यस्तत्वं-</bold>संप्रयोगसंस्कारजन्यत्वे
 
सति प्रत्यभिज्ञाभिन्नत्वम्।
 

<bold>
अध्यात्मशास्त्रं- </bold>आत्मानमधिकृत्य प्रवृत्तं शास्त्रम् ॥ ११८ ॥

<bold>
अध्यात्म-मं-</bold>आत्म (संबन्धित्वमध्यात्मत्वम् १ ) [नं देहेन्द्रियादिकं

क्षेत्रज्ञं ब्रह्म वाधिकृत्य वर्तमानम् ।
 
[ तादे:
 

<bold>
अध्यारोपः-</bold> वस्तुन्यवस्त्वारोपः, यथा शुक्तिकाशकलादौ रज-

<bold>
अध्यासः- </bold>परत्र परीरावभासः १ अधिष्ठान विषमसत्ताकावभास

इति परिमले २ एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाव-

वत्यवभासः । स्वात्यन्ताभाववत्यवभास एतावन्मात्रोक्तौ यत्र

भूतलादौ घटोऽपसारितः पुनश्चानीतस्तादृशघटादावतिप्रसङ्गः

स्यादिति स्वसंसृज्यमान इत्युक्तम्, एवमपि मूलावच्छेदेन

कपिसंयोगात्यन्ताभाववति वृक्षे शाखाप्रावच्छेदेन च तत्सं-

सृज्यमानेऽवभासमानत्वात्संयोगस्य तत्रातिप्रसङ्गः स्यादित्यत

एकावच्छेदेनेति ३ दोषजन्यत्वे (सति संस्कारजन्यः ४ ) स-

त्यधिष्टानसामान्यज्ञानजन्यः ५ पारमार्थिकत्वावच्छिन्नस्वात्य-

न्ताभावाधिकरणे प्रतीयमान इति तत्त्वविवेके ६ स द्विविधो

ज्ञानाध्यासोऽर्थाध्यासश्च । यद्वा स्वरूपाध्यासः संसर्गाध्यासश्चे-

ति द्विविधोध्यासः । तत्राद्यो रज्ज्वादौ भुजङ्गाद्यध्यास आत्मनि
 
1
 
k
 

[^
१ अवभासते इत्यवभास इति व्युत्पत्त्याऽवभासशब्दोऽर्थाध्यासपरः,

अवभासतेऽर्थः (=रजतादिः) अनेनेति व्युत्पत्त्या च ज्ञानाध्यासपरः ।
 

]