This page has not been fully proofread.

८ [अध्या]
 
* सर्वलक्षणसङ्ग्रहः *
 
मी०२ गुरुमुख (तः शास्त्रार्थज्ञानम् ३) चारणानुसायुंच्चारणम्
अध्यस्तत्वं-संप्रयोगसंस्कारजन्यत्वे
 
सति प्रत्यभिज्ञाभिन्नत्वम्।
 
अध्यात्मशास्त्रं- आत्मानमधिकृत्य प्रवृत्तं शास्त्रम् ॥ ११८ ॥
अध्यात्म-आत्म (संबन्धित्वमध्यात्मत्वम् १ ) [नं देहेन्द्रियादिकं
क्षेत्रज्ञं ब्रह्म वाधिकृत्य वर्तमानम् ।
 
[ तादे:
 
अध्यारोपः- वस्तुन्यवस्त्वारोपः, यथा शुक्तिकाशकलादौ रज-
अध्यासः- परत्र परीवभासः १ अधिष्ठान विषमसत्ताकावभास
इति परिमले २ एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाव-
वत्यवभासः । स्वात्यन्ताभाववत्यवभास एतावन्मात्रोक्तौ यत्र
भूतलादौ घटोऽपसारितः पुनश्चानीतस्तादृशघटादावतिप्रसङ्गः
स्यादिति स्वसंसृज्यमान इत्युक्तम्, एवमपि मूलावच्छेदेन
कपिसंयोगात्यन्ताभाववति वृक्षे शाखाप्रावच्छेदेन च तत्सं-
सृज्यमानेऽवभासमानत्वात्संयोगस्य तत्रातिप्रसङ्गः स्यादित्यत
एकावच्छेदेनेति ३ दोषजन्यत्वे (सति संस्कारजन्यः ४ ) स-
त्यधिष्टानसामान्यज्ञानजन्यः ५ पारमार्थिकत्वावच्छिन्नस्वात्य-
न्ताभावाधिकरणे प्रतीयमान इति तत्त्वविवेके ६ स द्विविधो
ज्ञानाध्यासोऽर्थाध्यासश्च । यद्वा स्वरूपाध्यासः संसर्गाध्यासश्चे-
ति द्विविधोध्यासः । तत्राद्यो रज्ज्वादौ भुजङ्गाद्यध्यास आत्मनि
 
1
 
k
 
१ अवभासते इत्यवभास इति व्युत्पत्त्याऽवभासशब्दोऽर्थाध्यासपरः,
अवभासतेऽर्थः (=रजतादिः) अनेनेति व्युत्पत्त्या च ज्ञानाध्यासपरः ।