This page has been fully proofread once and needs a second look.

१५२ [डी]
 
* सर्वलक्षणसङ्ग्रहः *
 
<bold>होमः-</bold> देवतोद्देशेन वह्नौ मन्त्रद्वारा द्रव्यत्यागः १ अग्निसंयोगानु-

कूल क्रियानुकूलघृतादिवृत्तिनोदनादिव्यापार इति दिनकर्याम् ।
 

<bold>
हंससंन्यासी-</bold> शिखावर्जितो यज्ञोपवीतजटाशिक्यैकदण्डक-

मण्डलुधरः ग्रामैकरात्रः नित्यं कृच्छ्रचान्द्रायणपरः ॥ ३४७६॥

</bold>
ही:-</bold> अकार्यप्रवृत्त्यारम्भे तत्प्रतिबन्धिका लोकलज्जा ॥ ३४७७ ॥

<bold>
सहजसरलां प्रेम्णा दीर्घा समस्तविशोधिनीं,

सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः ।

कथमपि सती पूता सद्यस्तया विषयीकृता,

मम कृतिरियं हित्वा दोषान्भवत्वतिसहुह्गुणा ॥ १ ॥

स्थितानि ग्रन्थेषु प्रकटमुपदिष्टानि गुरुभिः,

गुणो वा दोषो वा न मम परवाक्यानि वदतः ।

परन्त्वस्मिन्नस्ति श्रमफलमिदं यन्निजधिया,

श्रुतीनां युक्तीनामकलि गुरुवाचां च विषयः ॥ २ ॥
</bold>
सिद्धान्तरीतिषु मया भ्रदूषितेन स्यादन्यथापि लिखितं यदि किञ्चिदस्य,

संशोधने सहृदयास्सदया भवन्तु सत्संप्रदायपरिशीलननिर्विशङ्काः ॥ ३ ॥

<bold>
यदत्र स्खलितं किञ्चित्प्रमादेन भ्रमेण वा ।

तत्सर्व शोधयन्त्वार्याः कस्य न स्खलितं मनः ॥ ४ ॥

गच्छेतः स्खलनं कापि भवत्येव प्रमादतः ।

हसन्ति दुर्जनास्तत्र समादधति सजनाः ॥ ५ ॥

बहुच्छिद्रं परित्यज्य गुणलेशजिघृक्षया ।
 

परिगृहन्त्वदो विशा ॠजवो दम्भवर्जिताः ॥ ६ ॥
 
</bold>