This page has not been fully proofread.

१५२ [डी]
 
* सर्वलक्षणसङ्ग्रहः *
 
होमः-देवतोद्देशेन वह्नौ मन्त्रद्वारा द्रव्यत्यागः १ अग्निसंयोगानु-
कूल क्रियानुकूलघृतादिवृत्तिनोदनादिव्यापार इति दिनकर्याम् ।
 
हंससंन्यासी-शिखावर्जितो यज्ञोपवीतजटाशिक्यैकदण्डक-
मण्डलुधरः ग्रामैकरात्रः नित्यं कृच्छ्रचान्द्रायणपरः ॥ ३४७६॥
ही:- अकार्यप्रवृत्त्यारम्भे तत्प्रतिबन्धिका लोकलज्जा ॥ ३४७७ ॥
सहजसरलां प्रेम्णा दीर्घा समस्तविशोधिनीं,
सकृदपि कृपादृष्टिं सन्तो दिशन्तु भवद्विधाः ।
कथमपि सती पूता सद्यस्तया विषयीकृता,
मम कृतिरियं हित्वा दोषान्भवत्वतिसहुणा ॥ १ ॥
स्थितानि ग्रन्थेषु प्रकटमुपदिष्टानि गुरुभिः,
गुणो वा दोषो वा न मम परवाक्यानि वदतः ।
परन्त्वस्मिन्नस्ति श्रमफलमिदं यन्निजधिया,
श्रुतीनां युक्तीनामकलि गुरुवाचां च विषयः ॥ २ ॥
सिद्धान्तरीतिषु मया भ्रदूषितन स्यादन्यथापि लिखितं यदि किञ्चिदस्य,
संशोधने सहृदयास्सदया भवन्तु सत्संप्रदायपरिशीलननिर्विशङ्काः ॥ ३ ॥
यदत्र स्खलितं किञ्चित्प्रमादेन भ्रमेण वा ।
तत्सर्व शोधयन्त्वार्याः कस्य न स्खलितं मनः ॥ ४ ॥
गच्छेतः स्खलनं कापि भवत्येव प्रमादतः ।
हसन्ति दुर्जनास्तत्र समादधति सजनाः ॥ ५ ॥
बहुच्छिद्रं परित्यज्य गुणलेशजिघृक्षया ।
 
परिगृहन्त्वदो विशा ॠजवो दम्भवर्जिताः ॥ ६ ॥