This page has been fully proofread once and needs a second look.

<bold>* सर्वलक्षणसर्व
 
*
 
[होता] १५१
 
॥३४४६॥
 
</bold>
<bold>
हरणत्वम्-</bold> बलाग्द्रहणपूत्रेकस्थानान्तरप्रापणत्वम्
॥३४४६॥
<bold>
हरिहरः -</bold> मूर्तिविशेषः १ हरियुक्तो हर इत्यन्योन्यः ॥ ३४४८॥

<bold>
हर्षः -</bold> चित्तगतसुखाभिव्यञ्जिका मुखविकासादिहेतुर्धीवृत्तिः ।

<bold>
हवनम्-</bold> देवाद्युद्देशेन मन्त्रपूर्वकं वहौ हविःप्रक्षेपः ॥ ३४५० ॥

<bold>
हास: )</bold> कण्ठोष्ठपुटविस्फूर्जनपुरःसरमहहह इत्यट्टः १ विकृतवेष.

<bold>
हास्यं )</bold> वाक्केाच्केष्टादिदर्शन जन्य सुखविशेषो रदविकासादिहेतुः ।

<bold>
हिन्दुः -</bold> हिंसातो दूरं याति १ हीनं दूषयतीति मेरुतन्त्रे २ वेद-

प्रामाण्याभ्युपगन्ता ३ आसिन्धुसिन्धुपर्यन्ता यस्य भारतभू-

मिका, पितृभूः पुण्यभूश्चैव स वै हिन्दुरिति स्मृतः ॥३४५६॥

<bold>
हिरण्यगर्भः -</bold> अपञ्चीकृतभूत कार्यसमष्टिसूक्ष्म शरीरः १ समष्टि-

सूक्ष्म (प्रपञ्चाभिमानी २) कारण शरीरोपहितं चैतन्यम् <error>३४५९
</error><fix>॥३४५९॥</fix>
<bold>
हिंसा-</bold> प्राणिवृत्तिच्छेदः * १ अविधिपूर्वकं प्राण्युपघातः २

प्राणवियोग (प्रयोजकव्यापारः ३) अनुकूलव्यापारः ॥ ३४६३॥

<bold>
हेतुः-</bold> साध्यविषयकज्ञान जनक (ज्ञानविषयः १ ) वचनम् २ तृतीयान्त

पञ्चम्यन्तं वा, यथा धूमेन धूमाद्वेति ३ प्रतिज्ञावाक्यधीजन्य-

कारणाकाङ्क्षानिवतेकज्ञानजनक हेतुविभक्तिमद्वाक्यम् ॥ ३४६६॥

<bold>
हेत्वाभासः -</bold> पञ्चरूपोपपन्नत्वा भावे सति तद्रूपण भासमानः १
 
+
 
G
 

अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषय इति ग्रं०

<bold>
हेयत्वं दानकि-</bold> हानक्रियाविषयत्वम्१ 'अनुपादेय' लक्षणमप्यत्र पठनी
यं
<bold>
होता -</bold> ऋग्वेद (वेत्ता १ ) विहित कर्मविशेषकर्ता ॥ ३४७३ ॥