This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रह: *
 
[अध्य]७
 
<bold>अधिकं -</bold>अधिकहेत्वादिकथनम् १योग्यपरिमाणातिक्रमित्वम् ८८

<bold>
अधिकरणं- </bold>साक्षात्परम्परया वा क्रियाश्रयः १ कर्तृकर्मद्वारक-

फलव्यापाराधारः, यथा स्थाल्यामोदनं गृहे पचतीति २ वेदवि-

चारात्मको न्यायः ३ विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्

निर्णय (सङ्गति) वेश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥९२॥

<bold>
अधिकारः- </bold>अधिकं कार्यम् १ उत्तरोत्तर (साकाङ्क्षत्वम् २) संब-

न्धः ३फलभोक्तृत्वे सति कर्मकर्तृत्वम् ४ यथेष्टं क्रयविक्रयादिक-

र्तृत्वसंपादकस्वामित्वम् ५स्वदेशे लक्ष्यसंस्कारोपयोगिवाक्या-

र्थबोधाजनकत्वे सति परदेशे तादृशवाक्यार्थबोधजनक इति

वै० ६ अनेकदेहारम्भकबलवत्प्रारब्धकर्मफलत्वम् ॥ ९९ ॥

<bold>
अधिकारविधिः- </bold>कर्मणः फलसंबन्धबोधको विधिः ॥१००॥

<bold>
अधिकारी-</bold>तत्तत्कर्म (करणयोग्यः १)जन्य फलार्थी २ ग्रन्थप्रति-

पाद्यार्थविषयकज्ञानधारणशक्तः ३ मुख्यगौणोभयप्रयोजनप्रा-

प्तिकामः * ४ मलविक्षेपरहितत्वे सति साधनचतुष्टयसंपन्नत्वे

सति स्वस्वरूपाज्ञानवत्त्वम् ।
 
[न्तृत्वं
 

<bold>
अधिष्ठातृत्वं -</bold>सन्निधानमात्रेण तत्तत्पदार्थानां तत्तत्कर्मसु निय-

<bold>
अधिष्ठानं -</bold> आश्रयः*१ अध्यस्ताधिकरणम् २ यदाधारमारोप्यं

भासते तत् ३ सत्तास्फूर्तिप्रदातृ चैतन्यम् ४सविलासाज्ञान विषय

इति मंप्र० ५स्वबुद्धिबाध्यकार्याधारः ६'आधार' लक्षणमप्यत्र प●

<bold>
अध्ययनं-</bold> अक्षरमात्रपाठ इति वैदिका १ सार्थाक्षरग्रहणमिति
 

 
"