This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रह: *
 
[अध्य]७
 
अधिकं अधिकहेत्वादिकथनम् १योग्यपरिमाणातिक्रमित्वम् ८८
अधिकरणं- साक्षात्परम्परया वा क्रियाश्रयः १ कर्तृकर्मद्वारक-
फलव्यापाराधारः, यथा स्थाल्यामोदनं गृहे पचतीति २ वेदवि-
चारात्मको न्यायः ३ विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरम्
निर्णय (सङ्गति) वेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥९२॥
अधिकारः- अधिकं कार्यम् १ उत्तरोत्तर (साकाङ्क्षत्वम् २) संब-
न्धः ३फलभोक्तृत्वे सति कर्मकर्तृत्वम् ४ यथेष्टं क्रयविक्रयादिक-
र्तृत्वसंपादकस्वामित्वम् ५स्वदेशे लक्ष्यसंस्कारोपयोगिवाक्या-
र्थबोधाजनकत्वे सति परदेशे तादृशवाक्यार्थबोधजनक इति
वै० ६ अनेकदेहारम्भकबलवत्प्रारब्धकर्मफलत्वम् ॥ ९९ ॥
अधिकारविधिः- कर्मणः फलसंबन्धबोधको विधिः ॥१००॥
अधिकारी-तत्तत्कर्म (करणयोग्यः १)जन्य फलार्थी २ ग्रन्थप्रति-
पाद्यार्थविषयकज्ञानधारणशक्तः ३ मुख्यगौणोभयप्रयोजनप्रा-
प्तिकामः * ४ मलविक्षेपरहितत्वे सति साधनचतुष्टयसंपन्नत्वे
सति स्वस्वरूपाज्ञानवत्त्वम् ।
 
[तृत्वं
 
अधिष्ठातृत्वं सन्निधानमात्रेण तत्तत्पदार्थानां तत्तत्कर्मसु निय-
अधिष्ठानं - आश्रयः*१ अध्यस्ताधिकरणम् २ यदाधारमारोप्यं
भासते तत् ३ सत्तास्फूर्तिप्रदातृ चैतन्यम् ४सविलासाज्ञान विषय
इति मं० ५स्वबुद्धिबाध्यकार्याधारः ६'आधार' लक्षणमप्यत्र प●
अध्ययनं अक्षरमात्रपाठ इति वैदिका १ सार्थाक्षरग्रहणमिति
 
"