This page has been fully proofread once and needs a second look.

* सवलक्षणसङ्ग्रहः *
 
श्रोतृ चित्तं स स्वर उच्यते इति रत्नाकरे ॥ ३४२२ ॥

<bold>
स्वरूपयोग्यत्वं-</bold> कारणतावच्छेदकधर्मवत्त्वम्, यथा वनस्थदण्डे

<bold>
स्वरूपलक्षणं-</bold> स्वरूपं पां(तर्गते सति व्यावर्तकम् १ ) सद्यांवर्त-

कम्, यथा प्रकृष्टप्रकाशचन्द्रः २ इतरानिरूप्यं लक्षणम् ३

स्वरूपमेवलक्षणम्, यथा सत्यज्ञानानन्दाः ॥ ३४२७ ॥

<bold>
स्वरूपसंबन्धः-</bold> प्रतियोग्यनुयोग्यन्यतरात्मकः संबन्धः १ संब-

न्धान्तरमन्तरेण विशिष्ट प्रतीतिजननयोग्यत्वम् ॥ ३४२९ ॥

<bold>
स्वरूपासिद्धत्वं-</bold> हेत्वभाववत्पक्षतावच्छेदकत्वम् १पक्षेऽभाववश्वं

<bold>
स्वरूपोपकार कं- प्रधान साधनद्रव्यादिसंस्कारद्वारा प्रधानोपका-

रकम्, यथा ज्ञानसाधनान्तःकरण संस्कार (कं) द्वारा निष्कामकर्मानु-

ष्ठानमिति वे० १ कमज्ञर्माङ्गद्रव्यदेवताद्युद्देशेन विधीयमानं कर्मेति मी०

<bold>
स्वशाखात्वं-</bold> परम्परया (ध्ययनकर्मत्वम् १) नुष्ठान विषयत्वम् ।

<bold>
स्वाध्यायः -</bold> आवृत्तिपूर्वकवेदाध्ययनम् १ मोक्षशास्त्राध्ययनं वा ।

<bold>
स्वामित्वं-</bold> स्वत्वनिरूपितो धर्मविशेषः*१परिव्राजकोपाधिमत्त्वं

<bold>
स्वारसिकलक्षणा-</bold> रूढिप्रयोजनाभाववती लक्षणा १ अधु-

नातनतात्पर्य विषयीभूतार्थनिष्ठा लक्षणा ॥ ३४४१ ॥

<bold>
स्वार्थानुमानम्-</bold> न्यायाप्रयोज्यानुमानम्
 
॥ ३४४२ ॥
 

<bold>
स्वार्थानुमितिः -</bold> स्वस्य व्याप्यप्रतीत्यनन्तरं व्यापकप्रत्ययः ।

<bold>
स्वाहा -</bold> देवोद्देशेन हविस्त्यागः ।
 
[स्वस्य कारः करणं
 

<bold>
स्वीकारः-</bold> ममेदमिति ज्ञानात्मकः संप्रदान व्यापारः १ अस्वस्य