This page has not been fully proofread.

* सवलक्षणसङ्ग्रहः *
 
श्रोतृ चित्तं स स्वर उच्यते इति रत्नाकरे ॥ ३४२२ ॥
स्वरूपयोग्यत्वं कारणतावच्छेदकधर्मवत्त्वम्, यथा वनस्थदण्डे
स्वरूपलक्षणं-स्वरूपं (तर्गते सति व्यावर्तकम् १ ) सद्यांवर्त-
कम्, यथा प्रकृष्टप्रकाशचन्द्रः २ इतरानिरूप्यं लक्षणम् ३
स्वरूपमेवलक्षणम्, यथा सत्यज्ञानानन्दाः ॥ ३४२७ ॥
स्वरूपसंबन्धः प्रतियोग्यनुयोग्यन्यतरात्मकः संबन्धः १ संब-
न्धान्तरमन्तरेण विशिष्ट प्रतीतिजननयोग्यत्वम् ॥ ३४२९ ॥
स्वरूपासिद्धत्वं हेत्वभाववत्पक्षतावच्छेदकत्वम् १पक्षेऽभावववं
स्वरूपोपकार कं- प्रधान साधनद्रव्यादिसंस्कारद्वारा प्रधानोपका-
रकम्, यथा ज्ञानसाधनान्तःकरण संस्कार (कं) द्वारा निष्कामकर्मानु-
ष्ठानमिति वे० १ कमज्ञद्रव्यदेवताद्युद्देशेन विधीयमानं कर्मेति मी०
स्वशाखात्वं परम्परया (ध्ययनकर्मत्वम् १) नुष्ठान विषयत्वम् ।
स्वाध्यायः - आवृत्तपूर्वकवेदाध्ययनम् १ मोक्षशास्त्राध्ययनं वा ।
स्वामित्वं स्वत्वनिरूपितो धर्मविशेषः*१परिव्राजकोपाधिमत्त्वं
स्वारसिकलक्षणा- रूढिप्रयोजनाभाववती लक्षणा १ अधु-
नातनतात्पर्य विषयीभूतार्थनिष्ठा लक्षणा ॥ ३४४१ ॥
स्वार्थानुमानम्-न्यायाप्रयोज्यानुमानम्
 
॥ ३४४२ ॥
 
स्वार्थानुमितिः - स्वस्य व्याप्यप्रतीत्यनन्तरं व्यापकप्रत्ययः ।
स्वाहा - देवोद्देशेन हविस्त्यागः ।
 
[स्वस्य कारः करणं
 
स्वीकारः- ममेदमिति ज्ञानात्मकः संप्रदान व्यापारः १ अस्वस्य