This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
-
 
<bold>स्वदेशगतत्वं-</bold> स्वाश्रयतावच्छेदकान्यदेशानवच्छिन्नाश्रयताकत्वं

<bold>
स्वधा -</bold> पित्रुद्देशेन द्रव्यत्यागः, यथा श्राद्धादौ ॥ ३४०५ ॥

<bold>
स्वप्नजाग्रत् -</bold> स्वप्ने मित्रादिप्राप्तिः ॥ ३४०६ ॥

<bold>
स्वप्नसुषुप्तिः -</bold> जाग्रद्द गाशायां वक्तुमशक्यं यत्किञ्चित्स्वप्नेऽनुभूयते

<bold>
स्वप्न स्वप्नः -</bold> स्वप्नंऽपिस्वप्नो मया दृष्ट इति बुद्धविषयः ।
[तत्
<bold>
स्वप्नावस्था -</bold> इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यव-

स्था । जाग्रदवस्थाव्या वृत्त्यर्थमिन्द्रियाजन्येति, अविद्याट-
वृ-
त्तिमत्यां सुषुप्तावतिव्याप्तिवारणायान्तःकरणेति १ जाग्रद्भोग-

प्रदकर्मोपरम सतीन्द्रियोपरमे जाग्रदनुभवजन्यसंस्कारोद्भूत-

विषयतज्ज्ञानावस्था २ विपरीतदर्शनत्वं स्वत्वम् ॥ ३४११॥

<bold>
स्वप्रकाशत्वं-</bold> सजातीयप्रकाशाप्रकाश्यत्वम् १ इतराप्रकाश्यत्वे

संविद विषयत्वे वा सति प्रकाशमानत्वमित्यद्वैतदीपिकायाम् ३

स्वव्यवहारे स्वातिरिक्तसंविदन पेक्षत्वम् ४ अवेद्यत्वे सत्यपरो-

क्षव्यवहारयोग्यत्वम् । घटादावतिव्याप्तिवारणाय सत्यन्तम्,

अतीन्द्रियधर्मादावतिव्याप्तिवारणायापरोक्षेत्यादि विशेष्यम् ५

अन्यानवभास्यत्वे सति स्वव्यतिरिक्तसकलावभासत्वम् <error>३४१७
</error><fix>॥३४१७॥</fix>
<bold>
स्वभावः -</bold> स्वस्य भावः १ हेत्वन्तरनिरपेक्षं वस्तुस्वरूपम् *

जन्मान्तरकृतो धर्माधर्मादिशुभाशुभसंस्कारः ॥ ३४२० ॥

<bold>
स्वरः -</bold> काक्कादि (रूगे) कृते वर्णाद्युच्चारणध्वनि विशेषः १ श्रुत्य-

नन्तरभावी यः शब्दो ऽनुरणनात्मकः, स्वतो रञ्जयति
 
[स्वर] १४९
 
[तत्