This page has not been fully proofread.

१४८ [स्वत]
 
* सवलक्षणसङ्ग्रहः *
 
A
 
ति, असंभववारणायोद्भूतेति, प्रत्यभिज्ञायामतिव्याप्तिवारणाय
मात्रपदम् ४ वेदार्थानुवादकवाक्यम् ५ स्मरणाद्वै निमित्तानां
धर्माधर्मनिरूपणात् । तिमिरोत्पाटना ६ विस्मृतिरित्यभिधीयते ।..
स्वत्वम् - स्वामित्वम् १ प्रतिग्रहयुद्धक्रियादिजयो धर्मविशेष: २
शास्त्रसंमत यथेष्टविनियोगार्हत्वम् ॥ ३३८९ ॥
स्वगतत्वं स्वस्मिन्विद्यमानत्वम् ।
[लादितः
स्वगतभेदः - स्वावयवैः कृतो भेदः, यथा वृक्षस्य पर्णपुष्पफ-
स्वतन्त्रः - स्वेच्छाचारी १ कर्तुमकर्तुमन्यथा वा कर्तुं समर्थ: २
इतर (व्यापारानधीन व्यापारवत्त्वम् ३) सत्तानधीनसत्ताकः ।
स्वतउत्पत्तिकत्वं - आगन्तुकभावकारणानपेक्षज्ञानसामान्य-
प्रयोजकप्रयोज्यत्वम् १ दोषाभावसहकृतज्ञानसामान्यसामग्री-
जन्यत्वमिति ग्रं० २ विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्त-
हेत्वजन्यत्वम् । विज्ञान सामग्री जन्यत्वम गमाण्येप्यस्तीति परतः
प्रामाण्यवादिभिश्च स्वीक्रियत इत्यतिव्याप्तिरन्तरता वा
स्यात् तन्निवृत्त्यर्थं तदतिरिक्तहेत्वजन्यत्वमिति ३३९७
स्वतोग्राह्यं ज्ञानग्राहक(तिरिक्तानपेच मिति भाट्टा: १ सामग्रीज-
न्यग्रह विषय इति नै ०२ दोषाभावसह कृत (ज्ञानसामग्रीमात्रग्राह्यम् ३
यावत्स्वाश्रयग्राहकसामग्रीग्राह्यमिति वे० ४ प्रामाण्यग्रह प्रतिबन्ध-
काभावकालीनयावत्स्वाश्रयानुव्यवसायग्राह्यमिति मुरारिमिश्राः
स्वतःप्रमाणं अन्य प्रमाण निरपेक्षस्वार्थबोधनसमर्थम् ३४०३
 
-