This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रहः
 
[स्मृ] १४
 
C
 
:
 
स्थलं - जलशून्यदेशः १ तत्तद्व्यवहारजन्यशाब्दबोधविषयः ।
स्थानं-सनिधि विशेषः १ स्वाभिप्रायबोधानुकूला (क्रिया) स्थितिः
स्थायित्वं-स्थितिशीलत्वम् १ समधिककोलवृत्तित्वं वा ३३६८
स्थूलशरीरं - पञ्चीकृतपञ्चमहाभूतकार्य दृग्गोचरशरीरम् १
शुक्रशोणितनिर्मितत्वे सत्यस्थ्यादि समुदायत्वं स्थूलशरीरत्वम् ।
स्नानं - शरीरमज्जनम् १ कायप्रक्षालनमिति ग्रं० ॥ ३३७२ ॥
स्नेहः- चूर्णादिपिण्डीभाव हेतुर्गुणः १ दर्शने स्पर्शने चापि श्रवणे
भाषणेऽपि वा यत्र द्रवत्यन्तरङ्ग स स्नेह इति कथ्यते ३३७४
स्पर्श:- उप (पातकः १) तप्ता २ त्वगिन्द्रियमात्रग्राह्यो गुगः ३३७६
स्पष्टब्रह्मलिङ्गकत्वं विषयवाक्ये ब्रह्मधर्मतया निर्णीत (1र्थबो-
धक) ब्रह्मलिङ्गकत्वम्, यथान्तरधिकरणविषयवाक्ये ब्रह्मधर्मतया
निर्णीतं सर्वदुरितोदितत्वं फलवचनोपोलनेन जीवादावसंभ-
वेन ब्रह्मण्येव सङ्गमनीयं ब्रह्मधर्मतया निर्णीतं विद्यते इति तत् ।
स्फुटत्वं तद्विषयक जिज्ञासान धीनप्रतिपत्तिविषयत्वम् ॥ ३३७८
स्फोटः-वर्णातिरिक्तो वर्णाभिव्य क्योऽर्थप्रत्यायको नित्यः शब्दः 6
अर्थनिष्टविषयताप्रयोजक शक्तिमत्त्वं स्फोटत्वम् ॥ ३३८० ॥
स्मरणं ) सादृश्यानुभवाद्वस्त्वन्तरस्मृतिः १ चिरानुभूतार्थस्म-
स्मृतिः ) रणशक्तिः २ अनुभूतविषयाधिकानवगाहिज्ञानम् ३
उद्भूतसंस्कारमात्रजन्यं ज्ञानम्। संस्कारध्वंसे ऽतिव्याप्तिवार-
जाय ज्ञानमिति, अनुभवेतिव्याप्तिवारणाय, संस्कारजन्य मि
 
}