This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
<bold>सेवकवृद्धिव्यसनं-</bold> परराष्ट्राभिभवादीच्छ्या
सेवकवृद्ध्यर्थेच्छा-
हेतुर्व्यसनम् ।
 
-
 
[कारित्वं
<bold>
सेवा-</bold> पर (कार्यसाधनम् १ ) [र्थक्रिया २ सर्वभावेनाचार्यानुकूल-

<bold>
सोपाधिकभेदत्वं -</bold> उपाधिसत्ताव्याप्यसत्ताकत्वम् ॥ ३३१९॥

<bold>
सोपाधिकभ्रमः- )</bold> अधिष्ठाटानज्ञानानिवर्त्यो भ्रमः १ उपाधि-

<bold>
सोपाधिकाध्यासः-)</bold> निरूपणाधीननिरूपणाध्यासः <error>३३२१
</error><fix>॥३३२१॥</fix>
<bold>
संयमः-</bold> इन्द्रियनिग्रहः १ सङ्कोचकारकव्यापारो वा ॥३३२३॥

<bold>
संयोगः -</bold> विद्यमानयोरप्राप्तयोः प्राप्तिः *१ क्रियाजन्यद्रव्याश्रयो

गुणः २संयुक्तव्यवहारासाधारणकारणम् । दण्डादिवारणाय सं-

युक्तव्यवहारेति, कालादिवारणायासाधारणेति ३जन्यद्रव्य

वृत्तित्वे सति स्वसमानाधिकरणाभावप्रतियोगिविभागभिन्नगुणः

<bold>
संवादः -</bold> परस्परं जनानां सम्यर्णिङ्मिर्णयपूर्वकं वादो भाषणम् ।

<bold>
संवादिभ्रमः-</bold> सफलप्रवृत्तिजनक भ्रमः'अविसं ० ' स्यापीदं लक्षणं ज्ञेयं

<bold>
संशयः -</bold> अनवधारणज्ञानम् १ संदिग्धार्थानिश्चयः * २ एकस्मि-

न्धर्मिणि विरुद्ध (भावाभावप्रकारकज्ञानम् ३ ) कोटिद्वयावगाहि-

ज्ञानम्, यथा आम्रो वा पनसो वेति ४ एकत्र भासमानविरुद्ध-

नानाकोटिकज्ञानम् ।
[वच्छिन्न प्रतियोगिताको ०

<bold>
संसर्गाभावः-</bold> संसर्गप्रतियोगि कोऽभावः १त्तादात्म्यभिन्न संबन्ध

<bold>
संसार:-
</bold> मिथ्याज्ञानजन्य संस्काररूपवासना १ स्वादृष्टोपनिबद्ध-

शरीरपरिग्रह इति कलापे २ संसरति (जायते म्रियते च ) यस्मि-
·
 
[संसा] १४५
सेवकवृद्ध्यर्थेच्छा-
[कारित्वं