This page has been fully proofread once and needs a second look.

१४४ [सृष्टि]
 
* सवलक्षणसङ्ग्रहः *
 
-
 
<bold>सुखं -</bold> निरुपाधि केष्टम् * १ सत्त्वपरिणामरूपप्रीत्यात्मकचित्तत्र-
सि

त्ति
विशेषः २ सर्वेषामनुकूलतया वेदनीयम् । शत्रुदुःखवारणाय

सर्वेषामिति ३ अन्येच्छानिधीनेच्छाविषयः । भोजनादावति-

व्याप्तिवारणायान्येच्छान धीने ति ४ काम्यभावत्वम् <error>३३००
</error><fix>॥३३००॥</fix>
<bold>
सुन्दरी -</bold> विलक्षण संस्थानावयववती ॥ ३३०१ ॥

<bold>
सुषुप्ति जाग्रत् -</bold> सुषुझ्यवस्थायां सात्त्विकी या सुखाकारा वृत्तिः

( यदनन्तरं प्रबुद्धस्य सुखमहमस्वाप्समिति परामर्शः ) सा ।

<bold>
सुषुप्तिसुषुप्तिः -</bold> सुषुझ्प्त्यवस्थायां या तामसी वृत्तिः ( यद्वलात्प्र-

बुद्धस्य गाढं मूढोऽहमस्वाप्समिति परामर्शः) सा ॥ ३३०३ ॥

<bold>
सुषुप्तिस्वनः-</bold> सुषुप्त्यवस्थायां या राजसी वृत्तिः ( यदनन्तरं

दुःखमहमस्वाप्समिति प्रबुद्धस्य परामर्शः ) सा ॥ ३३०४ ॥

<bold>
सुषुप्त्यवस्था-</bold> सुखगोचराविद्यागोचराविद्यावृत्त्यवस्था १ जाग्र-

त्स्वप्नोभयभोग प्रदकर्मोपरमे सति द्विविधदेहाभिमाननिवृत्तिद्वारा

विशेषविज्ञानोपरमात्मिका या बुद्धेः कारणात्मनावस्थितिः <error>३३०६
</error><fix>॥३३०६॥</fix>
<bold>
सुहृद्-</bold> सर्वदानुगामी १ प्रत्युपकारंमनपेक्ष्य पूर्वस्नेहं विनैवोपकर्ता ।

<bold>
सूक्ष्मशरीरत्वं-</bold> दृगगोचरत्वे सति कारणदेहभिन्नत्वम् <error>३३०९
</error><fix>॥३३०९॥</fix>
<bold>
सूत्रं -</bold> अल्लापाक्षर (त्वे सातसति बह्वर्थसूचकत्वं सूत्रत्वम् १ ) मसंदिग्धं
 
-
 

सारवद्विश्वतोमुखम्, अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।

<bold>
सूत्रधारः -</bold> नाटक प्रयोग प्रधानसञ्चालकः ॥ ३३१२ ॥

<bold>
सृष्टिः -</bold> संसाररचना १ उत्पत्त्यनुकूलव्यापारविशेषः ॥३३१४॥