This page has not been fully proofread.

१४४ [सृष्टि]
 
* सवलक्षणसङ्ग्रहः *
 
-
 
सुखं - निरुपाधि केष्टम् * १ सत्त्वपरिणामरूपप्रीत्यात्मकचित्तत्र-
सिविशेषः २ सर्वेषामनुकूलतया वेदनीयम् । शत्रुदुःखवारणाय
सर्वेषामिति ३ अन्येच्छानिधीनेच्छाविषयः । भोजनादावति-
व्याप्तिवारणायान्येच्छान धीने ति ४ काम्यभावत्वम् ३३००
सुन्दरी - विलक्षण संस्थानावयववती ॥ ३३०१ ॥
सुषुप्ति जाग्रत् - सुषुझ्यवस्थायां सात्त्विकी या सुखाकारा वृत्तिः
( यदनन्तरं प्रबुद्धस्य सुखमहमस्वाप्समिति परामर्शः ) सा ।
सुषुप्तिसुषुप्तिः - सुषुझ्यवस्थायां या तामसी वृत्तिः ( यद्वलात्प्र-
बुद्धस्य गाढं मूढोऽहमस्वाप्समिति परामर्शः) सा ॥ ३३०३ ॥
सुषुप्तिस्वनः- सुषुयवस्थायां या राजसी वृत्तिः ( यदनन्तरं
दुःखमहमस्वाप्समिति प्रबुद्धस्य परामर्शः ) सा ॥ ३३०४ ॥
सुषुप्त्यवस्था-सुखगोचराविद्यागोचराविद्यावृत्त्यवस्था १ जाग्र-
त्स्वप्नोभयभोग प्रदकर्मोपरमे सति द्विविधदेहाभिमाननिवृत्तिद्वारा
विशेषविज्ञानोपरमात्मिका या बुद्धेः कारणात्मनावस्थितिः ३३०६
सुहृद्-सर्वदानुगामी १ प्रत्युपकारंमनपेक्ष्य पूर्वस्नेहं विनैवोपकर्ता ।
सूक्ष्मशरीरत्वं-दृगगोचरत्वे सति कारणदेहभिन्नत्वम् ३३०९
सूत्रं - अल्लाक्षर (त्वे सात बह्वर्थसूचकत्वं सूत्रत्वम् १ ) मसंदिग्धं
 
-
 
सारवद्विश्वतोमुखम् अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।
सूत्रधारः - नाटक प्रयोग प्रधानसञ्चालकः ॥ ३३१२ ॥
सृष्टिः - संसाररचना १ उत्पत्त्यनुकूलव्यापारविशेषः ॥३३१४॥