This page has been fully proofread once and needs a second look.

१४२ [सामा]
 
* सर्वलक्षणसम्र
 
<bold>साधुत्वम्-</bold> अपभ्रंशभिन्नत्वम् १ अभ्युदयसाधन प्रयोग विषयत्व-

मिति ग्रं० २ व्याकरण बोध्यत्वम् ३ पुण्यजनकतावच्छेदकजा-

तिमत्त्वम् * ४ निर्दोषत्वम् ५ प्रियकारित्वमिति ग्रं० ६ स्वपर-

कार्यसाधकत्वम् ७ निर्वैरः सदयः शान्तो दम्भाहङ्कारव-

र्जितः, निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते ॥३२४५ ॥

<bold>
साध्यत्वं-</bold> निष्पाद्यत्वम् * १ व्याप्तिनिरूपकत्वम् २ अवयवत्वाव-

च्छिन्नविषयतानिरूपित विषयताप्रयोजकत्वम् * ३ कालान्वयि-

तावच्छेदकरूपवत्त्वम् ४ भाविकालवृत्तिधर्मवत्त्वम् ॥ ३२४६॥
साम-

<bold>साम-</bold>
शत्रुवशीकरणोपायः १ प्रियवचनैः क्रोधोपशमन मिति ग्रं०

<bold>
सामग्री-</bold> कार्यायोगव्यवच्छिन्नः कारणसमुदायः ॥ ३२५३॥

<bold>
साममन्त्रः-</bold> गीतिरूप [८८१४] मन्त्रः १ गीतिविशिष्टो मन्त्रः ।

<bold>
सामयिकाभावत्वं-</bold> उत्पत्तिविनाशवत्त्वे सत्यभावत्वम् <error>३२५६
</error><fix>॥३२५६॥</fix>
<bold>
सामर्थ्य-</bold> पदानां परस्परसंबन्धः १ कार्यजननयोग्यत्वम् <error>३२५८
</error><fix>॥३२५८॥</fix>
<bold>
सामवेदः-</bold> सामबहुलो वेदः १ सामावयको वेदः २ सॉसोम (विनि-

योजकत्वं सामवेदत्वम् ३) द्रव्यको वेद इति सुधायाम् <error>३२६२
</error><fix>॥३२६२॥</fix>
<bold>
सामानाधिकरण्यं -</bold> एक विभक्त्यन्तत्वे सत्येकार्थनिष्ठत्वम् १

भिन्नप्रवृत्तिनिमि (त्तकत्वे सत्येकार्थप्रतिपादकत्वम् २ ) त्तानां श-

ब्दानामेकस्मिन्नर्थे वृत्तिः, यथा सोयं देवदत्तः । मृद्धटः नीलमुत्पलं

राज्ञः पुरुष इत्यादि वाक्येषु व्यभिचारनिरासाय क्रमेण विशेषणं

<bold>
सामान्यं-</bold> बहु (तरविषयः १) व्यापकम् २ नित्यमे कमने कसमवेतं
 
-
 
-
 

 
-
 
-