2023-03-15 07:20:50 by kartikbhagwat94@gmail.com
This page has been fully proofread once and needs a second look.
<bold>अतिशयतापः-</bold>स्वाधिकतरदेवतोत्कर्षदर्शने जायमानस्तापः ।
<bold>अतिशयोक्तिः-</bold>अतिशयनोक्तिः १ पौर्वापर्यविपर्ययत्वम् ॥६३॥
<bold>अतिन्द्रियं -</bold> इन्द्रियाग्राह्यम् १लौकिकसाक्षात्कारविषयगुणत्वन्यू-
नवृत्तिसंस्कारत्वान्यधर्मसमवाय्यन्यगुण अतीन्द्रियगुणः ॥६५॥
<bold>अत्यन्तनिवृत्तिः -</bold> कारणसहितकार्यनिवृत्तिः * १ स्वप्रतियो-
गिजातीयप्रागभावासमानाधिकरणनिवृत्तिः ॥ ६७ ॥
<bold>अत्यन्ताभावः-</bold>नित्यसंसर्गाभावः १ त्रैकालिकसंसर्गावच्छिन्न-
प्रतियोगिताकोऽभावः, यथा भूतले घटो नास्ति । ध्वंसप्राग-
भाववारणाय त्रैकालिकेति, भेदवारणाय संसर्गेत्यादि <error>६९</error><fix>॥६९॥</fix>
<bold>अत्युक्तिः-</bold> अनौचित्येनोक्तिः १ न्यायविरुद्धवाक्यम् ॥ ७१ ॥
<bold>अथर्वत्वं-</bold> ब्रह्मकर्मोपयोगिमन्त्रसमूहत्वम् ॥ ७२ ॥
<bold>अदृष्टं-</bold>कर्मजन्य (त्वे सत्यतीन्द्रियम्१) संस्कारः २ न दृष्टम् <error>७५</error><fix>॥७५॥</fix>
<bold>अद्भुतः-</bold> विस्मयः १ चकिताद्यनुभावत्वे सति हर्षादिसञ्चारी २
सिद्धस्व धर्मिणो धर्म्यन्तरावयवैर्योगः ।
<bold>अद्वैतं-</bold>न द्वैतम् १ सजातीयविजातीयस्वगतभेदशून्यम् ॥८० ॥
<bold>अधमत्वं-</bold> निन्दायोग्यत्वम् * १ भयदयालज्जाशून्यत्वम् २काम-
क्रीडाविषये कर्त्तव्याकर्तव्याविचारकत्वमिति रसमञ्जर्याम् <error>८३</error><fix>॥८३॥</fix>
<bold>अधर्मत्वं-</bold> निषिद्धकर्मजन्य (त्वम्१)नरकजनकवृत्तिगुणत्वव्या-
प्यजातिमत्त्वम् २ वेदबोधितानिष्टसाधनताकत्वम् । विषभ-
क्षणादिवारणाय वेदेति, ब्रह्मयागादिवारणायानिष्टेति ॥८६॥