This page has not been fully proofread.

१४० [सह]
 
सर्वलक्षणसङ्ग्रहः
 
सत्येकः
 
संबन्धः - सम्यग्बन्धः १ संसृष्टबुद्धिव्यवहारयोर्हेतु: + २ विशिष्ट-
प्रतीतिनियामकः ३ संबन्धिभिन्नत्वे सति संबन्ध्याश्रितत्वे
संबोधनं सम्यग्ज्ञापनम् १ अन्यत्रासक्तस्याभिमुखीकरणं वा ।
संभवप्रमाणं- भूयःसहचारदर्शनजन्यज्ञानम्, यथा सम्भ-
वति ब्राह्मणे विद्या, सम्भवति सहस्रे शतमिति १ अविना-
भाविनोऽर्थस्य सत्ताग्रहणादन्यस्य सत्ताग्रहणम् ॥ ३१९७ ॥
संभावना-शक्तयुत्कर्षमाविष्कर्तुमत्युक्तिः * १ निश्चयप्रायऔ-
कव्याप न संशयः २ उत्कटैकतर कोटिकज्ञानमिति ग्रं० ॥ ३२००
सम्यग्ज्ञातत्वं- पदवाक्यमानादिविशिष्टज्ञानविषयताशालित्वम्
सर्वशः -सकलज्ञाता १ स्वरूपचैतन्येन स्वाध्यस्त सर्वजगदवभा-
सक इति मुक्तावल्याम् २ सर्व जानातीति ज्ञः ॥ ३२०४ ॥
सर्वनामत्वं स्वोच्चारणानुकूलबुद्धिप्रकार विशिष्टत्वम् १ वक्तृबु-
दिविशेष विषयत्वावच्छेदकत्वोपलक्षितधर्मावच्छिन्नार्थवाचित्वं
सवर्णः-समानो वर्णो यस्य १ स्वजनकयावत्स्थान प्रयत्नजन्य-
त्वे सति स्वाजनकस्थानप्रयत्नाजन्यत्वं सवर्णत्वम् ॥ ३२०८॥
सविकल्पकं वैशिष्टयावगाहिज्ञानम्, यथा घटमहं जानमीत्या-
दिज्ञानम् । इच्छादिवारणाय ज्ञानमिति, निर्विकल्पकवारणाय
वैशिष्ट्यावगाहीति ।
सविकल्पसमाधि-ज्ञातृज्ञानज्ञेयविकल्पावभासपुरःसरमात्मनि
सहकारित्वं स्वभिन्नत्वे सति स्वकार्यकारकत्वम् ॥३२११॥
 
[ चित्तसमाधानं