This page has been fully proofread once and needs a second look.

<bold>समनियतत्वं-</bold> तद्व्याप्यत्वे सति तद्व्यापकत्वम् १ स्वाधिकरण-

वृत्त्यभावाप्रतियोगित्वमिति ग्रं० ॥ ३१३९ ॥

<bold>
समन्वयः -</bold> वेदान्तानां ब्रह्मप्रमितिजनकत्वमिति तत्त्वदीपने १

ब्रह्मात्मैकत्वप्रतिपादकत्वेन वेदान्तवाक्यानां समनुगतत्वम् ।

<bold>
समर्पणं-</bold> स्त्रोपगृहीतविषयस्य प्रतिबिम्बरूपे चित्याधानम् ।

<bold>
समवायः -</bold> अयुतसिद्धयोः संबन्धः १ नित्यसंबन्धः । संयोग-

वारणाय नित्येति, गगनादिवारणाय संबन्ध इति २ संयो-

गभिन्नत्वे सति साक्षात्संबन्धत्वं समवायत्वम् ॥ ३.१४५ ॥

<bold>
समवायिकारणं-</bold> समवायसंबन्धावच्छिन्न कार्यतानिरूपिततादा

त्म्यसंबन्धावच्छिन्न कारणतावत् । [देकबुद्धिविषयः
 

<bold>
समष्टिः-</bold> सम्यग्व्याप्तिः*१समुदायभावापन्नः पदार्थ: २ वनव-

<bold>
समसमुच्चयः-</bold> ज्ञानकर्मणो (र्युगपदनु०) एकस्मिन्कालेऽनुष्ठानं

<bold>
समाधानं-</bold> विवादभञ्जनम् १ सिद्धान्तानुकूलतर्कादिना सम्य-

गर्भावधारणम् * २ निद्रालस्यप्रमादत्यागेन स्थितिः * ३

श्रवणाद्यपेक्षितचित्तैकाव्ग्र्यम् ॥ ३१५४ ॥

<bold>
समाधिः -</bold> कारणसामग्री १ असाध्यविषयाध्यवसायः * २ व्यु-

त्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावे सति विचित्तस्यैकाप्ग्रता

परिणाम: ३ द्रष्टृस्वरूपावस्थानहेतुश्चित्तवृत्तिनिरोध
इति ग्रं० ४
वृत्त्यन्तरनिरोधपूर्वकात्म गोचरधारावाहिकचित्तवृत्तिः ॥३१५९ ॥

<bold>
समानपदत्वं -</bold> एकपदत्वम् १ अखण्डपदत्वं वा * २ तिनिमि-

तानधिकरणनिमित्तिमत्पदा घटितत्वम् ॥ ३१६२ ॥
 
इति ग्रं० ४