This page has not been fully proofread.

समनियतत्वं तद्व्याप्यत्वे सति तद्व्यापकत्वम् १ स्वाधिकरण-
वृत्त्यभावाप्रतियोगित्वमिति ग्रं० ॥ ३१३९ ॥
समन्वयः - वेदान्तानां ब्रह्मप्रमितिजनकत्व मति तत्त्वदीपने १
ब्रह्मात्मैकत्वप्रतिपादकत्वेन वेदान्तवाक्यानां समनुगतत्वम् ।
समर्पणं-स्त्रोपगृहीतविषयस्य प्रतिबिम्बरूपे चित्याधानम् ।
समवायः - अयुतसिद्धयोः संबन्धः १ नित्यसंबन्धः । संयोग-
वारणाय नित्येति, गगनादिवारणाय संबन्ध इति २ संयो-
गभिन्नत्वे सति साक्षात्संबन्धत्वं समवायत्वम् ॥ ३.१४५ ॥
समवायिकारणं समवायसंबन्धावच्छिन्न कार्यतानिरूपिततादा
त्म्यसंबन्धावच्छिन्न कारणतावत् । [देकबुद्धिविषयः
 
समष्टिः- सम्यग्व्याप्तिः*१समुदायभावापन्नः पदार्थ: २ वनव-
समसमुच्चयः- ज्ञानकर्मणो (युगपदनु०) एकस्मिन्कालेऽनुष्ठानं
समाधानं- विवादभञ्जनम् १ सिद्धान्तानुकूलतर्कादिना सम्य-
गर्भावधारणम् * २ निद्रालस्यप्रमादत्यागेन स्थितिः * ३
श्रवणाद्यपेक्षितचित्तैकाव्यम् ॥ ३१५४ ॥
समाधिः - कारणसामग्री १ असाध्यविषयाध्यवसायः * २ व्यु-
त्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावे सति वित्तस्यैकाप्रता
परिणाम: ३ द्रष्टृस्वरूपावस्थानहेतुश्चित्तवृत्तिनिरोध
वृत्त्यन्तरनिरोधपूर्वकात्म गोचरधारावाहिकचित्तवृत्तिः ॥३१५९ ॥
समानपदत्वं - एकपदत्वम् १ अखण्डपदत्वं वा * २ तिमि-
तानधिकरणनिमित्तिमत्पदा घटितत्वम् ॥ ३१६२ ॥
 
इति ग्रं० ४