This page has not been fully proofread.

१३४ [श्लो]
 
● सर्वलक्षणसङ्ग्रहः *
 
तप्त काञ्चनवर्णाभा सा स्त्री श्यामेति कीर्तिता ॥ ३०३७॥
श्रद्धा- गुरूक्तवेदान्तवाक्यार्थावश्यम्भावित्वनिश्चयः
 
१ शास्त्राचा-
र्योपदिष्टेऽर्थेऽननुभूतेप्येवमेवैतदिति विश्वास इति ग्रं० ३०३९
श्रमः- मार्गगमनादिजः खेदः १ स्वेदमर्दनाद्यनुभावजनको वा ।
श्रवणं- शब्द विषयकप्रत्यक्षम् १ श्रोत्रियब्रह्मनिष्ठगुरुमुखच्छु.
तिवाक्यार्थविज्ञानम् २ उपक्रमादिभिः षड्डिलिंङ्गैर्वेदान्तानाम-
द्वितीचे ब्रह्मणि तात्पर्यावधारणमित्यादर्श ॥ ३०४४ ॥
श्राद्धं - प्रेतोद्देशेन द्रव्यत्याग: १ पित्राद्युद्देश्यको याग इति ग्रं०
श्रीगुरुः मोक्षलक्ष्मीलक्षणलक्षितः १ देवं गुरुं गुरुस्थानं क्षेत्रं
क्षेत्राधिेवताम्, सिद्धं सिद्धाधिकाराँश्च श्री' पूर्वं समुदीरयेत् ।
श्रुतं श्रवणगोचरः १ काव्यनाटकादिषु परिचयः । [कल्पनं
श्रुतार्थापत्तिः - अनुपपद्यमानार्थश्रवणात्तदुपपादकीभूतार्थान्तर-
श्रुतिः - क्रमपरवचनम् १ निरपेक्षो रवः । रव इत्युक्ते वाक्यादावति.
प्रसङ्गस्तद्वारणाय निरपेक्ष इति २स्वार्थं वक्तुं पदान्तरानपेक्षं पर्द
थोत्रेन्द्रियं शब्द (ग्राहकत्वं श्रोत्रत्वम् १) पलब्धिसाधन मिन्द्रियं
श्रोत्रियत्वं वेदवेदाङ्गपारगत्वम् १ वेदान्तार्थ गरगत्वं वा ३०५८
लाघा:-अविद्यमानात्मगु ॥ ज्ञापनम् १ निजगुणाविष्करणमिति मं०
श्लेषः - एकस्मिन्वाक्येऽनेकार्थता ॥ ३०६१ ॥
श्लोकः- चतुष्पादात्मकः १ छन्दो (बद्धवाक्यम् २) विशिष्टवा-
क्यरचनमिति ग्रं० ३ श्लोक्यते शस्यतेऽनेनेति ॥ ३०६५॥