This page has been fully proofread once and needs a second look.

● सवेलक्षणसङ्ग्रहः *
 
[शास्त्र] १३१
 
-
 
पदजन्य-
शां-

<bold>शस्त्रं-</bold>
अप्रगीतमन्त्रसा (ध्या स्तुतिः १ ध्यं कर्म २) ध्यम् <error>२९७८
</error><fix>॥२९७८॥</fix>
<bold>
शाब्दबोधः -</bold> शब्दाजातो बोधः * १ एकपदार्थेऽपरपदार्थ-

संसर्गविषयकं ज्ञानम् २ शक्तिलक्षणान्यतरसंबन्धेन
पदजन्य-
पदार्थस्मृतित्वावच्छिन्न कारणतानिरूपितकार्यत्वम् ॥२९८१ ॥

<bold>
शाब्दीप्रमा-</bold> वाक्यकरणिका प्रमा १ आप्तोक्तार्थविषयणी-

शब्दजन्या वृत्तिरिति प्रग्रं० २ शब्द विज्ञानादसन्निकृत्रेऽर्थे-

विज्ञानम् । प्रत्यक्षव्यवच्छेदार्थमसन्निकृष्टेति, आकाशं भक्ष-

येत्यादिव्यवच्छे दायार्थेतीति शाबरभाष्ये ॥ २९८४ ॥

<bold>
शाब्दीभावना-</bold> पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः <error>२९८५
</error><fix>॥२९८५॥</fix>
<bold>
शारीरकशास्त्रं-</bold> शास्यते प्रतिपाद्यते तत्त्वं शिष्येभ्योऽनेनेति ।

<bold>
शास्त्रम्-</bold> हितशासकम् १ एकप्रयोजनोपनिबद्धाशेषार्थ प्रतिपाद

कम् *२ लोकानधिगतार्थ (ज्ञापक) वक्तृत्वम् ३ प्रवृत्तिश्च निवृत्तिश्च

पुंसां येनोपदिश्यते, तद्धर्माश्चोपदिश्यन्ते शास्त्रं शास्त्रविदो विदुः

<bold>
शास्त्रवासना-</bold> शास्त्रतात्पर्याग्रहणेन केवलशास्त्राध्ययनेष्वास-

क्तिः १ शास्त्रानुभवजनितत्वे सति शास्त्रस्यैव पुनः पुनः (वा-

दिजयाद्यर्थम्) स्मरणहेतुरिति नंग्रं० २ अनात्मशास्त्रेषु सकल-

ग्रन्थाभ्यासपाटववादिविजिगीषाद्यभिनिवेशहेतु: ३ सर्वप्रन्या-

नां जन्मसहस्रैर प्यध्येतुम शक्यत्वादसार बहुलत्वा द्दर्पहेतुत्वात्स-

र्वेषां वादिनां दुर्जयत्वादात्मपराभवस्यावश्यं भावित्वाद्वृथा श्रमो-

यमिति निरन्तरञ्चिन्तनं शास्त्रवासनानिवृत्त्युपायः ॥ २९९३॥
 
-
 
Bak