This page has been fully proofread once and needs a second look.

भावरूपत्वे सति विज्ञाननिरास्यम् । उत्तरज्ञाननिवर्त्यपूर्वज्ञान-
वारणायानादिरूपेति, प्रागभाववारणाय, ज्ञानाभावोऽज्ञान-
मित्याशङ्कानिरासार्थं वा भावरूपेति, आत्मन्यतिव्याप्तिवा-
रणाय ज्ञाननिरास्यमिति ५ मिथ्यात्वे सति साक्षाज्ज्ञान-
निवर्त्यम् । ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति वदन्तं
प्रति सत्यन्तम्, अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यबन्धेऽतिव्याप्ति-
निरासाय साक्षादिति ६ अनाद्युपादानत्वे सति मिथ्यात्वम् ।
ब्रह्मनिरासार्थ मिथ्यात्वमिति, मृदादिनिरासार्थमनादीति,
अविद्यात्मनोः संबन्धनिरासार्थमुपादानत्वे सतीति ॥ ४२ ॥
<bold>अणुत्वं -</bold>अतिक्षुद्रपरिमाणवत्त्वम् १ सूक्ष्मपदार्थत्वे सत्यारम्भकत्वं
<bold>अतिक्रमणं-</bold>मर्यादोल्लङ्घनम् १ उचितादधिकस्यानुष्ठानं वा ४६
<bold>अतिथिः-</bold> अज्ञातपूर्वगृहागतव्यक्तिः १ अज्ञाता तिथिरागमनस्यास्य
<bold>अतिदेशः-</bold> एकत्र श्रुतस्यान्यत्र सम्बन्धः १ अन्यधर्मस्यान्य-
त्रारोपणं वा २ स्वविषयमुल्लङ्घयान्यविषये उपदेशः ॥५१॥
<bold>अतिप्रसङ्गः-</bold> प्रकृतादन्यत्र प्रसञ्जनम् १ प्रस्तुतविषयादन्यत्र
प्रसक्तिर्वा २ यस्य बोधो यत्राभिमतस्तदन्यस्यापि बोधप्रसङ्गः ।
<bold>अतिवादः -</bold> निरर्थकोऽतिप्रलापः १ अत्युक्तिसंस्थापकः शब्दः
<bold>अतिव्याप्तिः-</bold> अल (क्ष्यावृत्तित्वम् १ ) क्ष्ये लक्षणगमनम् २
लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम्, यथा गोः शृङ्गित्वं लक्षणं
लक्ष्यगोवृत्तित्वे सत्यलक्ष्यमहिष्यादिवृत्ति ॥ ६० ॥