This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
भावरूपत्वे सति विज्ञान निरास्यम् । उत्तरज्ञाननिवर्त्यपूर्वज्ञान-

वारणायानादिरूपेति, प्रागभाववारणाय, ज्ञानाभावोऽज्ञान-

मित्याशङ्कानिरासार्थं वा भावरूपेति, आत्मन्यतिव्याप्तिवा-

रणाय ज्ञाननिरास्यमिति ५ मिथ्यात्वे सति साक्षाज्ज्ञान-

निवर्त्यम् । ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति वदन्तं

प्रति सत्यन्तम्, अज्ञाननिवृत्तिद्वारा ज्ञान निवर्त्यबन्धेऽतिव्याप्ति-

निरासाय साक्षादिति ६ अनाद्युपादानत्वे सति मिथ्यात्वम् ।

ब्रह्मनिरासार्थ मिथ्यात्वमिति, मृदादिनिरासार्थमनादीति,

अविद्यात्मनोः संबन्धनिरासार्थमुपादानत्वे सतीति ॥ ४२ ॥

अणुत्वं अतिक्षुद्रपरिमाणवत्त्वम् १ सूक्ष्मपदार्थत्वे सत्यारम्भकत्वं

अतिक्रमणं-मर्यादोल्लङ्घनम् १ उचितादधिकस्यानुष्टाठानं वा ४६

अतिथिः- अज्ञातपूर्वगृहागतव्यक्तिः १ अज्ञाता तिथिरागमनस्यास्य

अतिदेशः एकत्र श्रुतस्यान्यत्र सम्बन्धः १ अन्यधर्मस्यान्य-

त्रारोपणं वा २ स्त्रविषयमुल्लङ्घधायान्यविषये उपदेशः ॥५१॥

अतिप्रसङ्गः- प्रकृतादन्यत्र प्रसञ्जनम् १ प्रस्तुतविषयादन्यत्र

प्रसक्तिर्वा २ यस्य बोधो यत्राभिमतस्तदन्यस्यापि बोधप्रसङ्गः ।

अतिवादः - निरर्थकोऽतिप्रलापः १ अत्युक्तिसंस्थापकः शब्दः

अतिव्याप्तिः- अल (क्ष्यावृत्तित्वम् १ ) क्ष्ये लक्षणगमनम् २

लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम्, यथा गोः शृतिङ्गित्वं लक्षणं

लक्ष्यगोवृत्तित्वे सत्यलक्ष्यमहिष्यादिवृत्ति ॥ ६० ॥
 
[अति] ५