This page has been fully proofread once and needs a second look.

१३० श
 
* सवलक्षणस्त्र *
 
हणम्, अनुमानत्वनिराकरणाय वचनमिति मी० ३ समयबलेन

सम्यक्परोक्षानुभवसाधनम् । अनुमानादिव्यावृत्त्यर्थं समयग्र -

हणम्, प्रत्यक्षव्यावृत्त्यै परोक्षपदम्, संशयादिव्यावृत्त्यै सम्य-

गिति, स्मृतिव्यावृत्त्यर्थमनुभवेतीति भूषणे ४ आप्तोच्चरितत्वे

सति वाक्यत्वम् । अनाप्तोच्चरितंवाक्येऽतिव्याप्तिवारणाय स-

त्यन्तम्, जबगडदशादावतिव्याप्तिवारणाय वाक्येति ५ स्व-

समानविषयवाक्यार्थयथार्थज्ञानजन्यत्वम् ॥ २९६४ ॥

<bold>
शब्दलिङ्गं -</bold> अर्थप्रकाशनसामर्थ्यमिति मीमांसकाः ॥२९६५॥

<bold>
शब्दाध्याहारः-</bold> आकाङ्क्षितार्थबोधकपदानुसन्धानम् <error>२९६६
</error><fix>॥२९६६॥</fix>
<bold>
शम:-</bold> मनःसंयमः १ नित्यनैमित्तिककर्मातिरिक्तानां व्यापा-

राणामन्तरिन्द्रियनिग्रह इति तत्त्वालोके २ ब्रह्मज्ञानोपयो-

गिव्यापारातिरिक्तचित्तव्यापारमात्रनिरोधः ॥ २९६९ ॥

<bold>
शरीरम् -</bold> शीर्यते प्रतिक्षणं नश्यतीति १ सुखदुःखान्यतरसाक्षा-

त्काररूपभोगायतनमिति वे० २ निरपेक्षत्वगिन्द्रियाधारः ।

अङ्गुल्याद्यवयवानां प्रत्येकं शरीरत्वनिरासाय निरपेक्षपदमिति

देहात्मवादिनः ३ आत्मनो भोगायतनम् ४ अन्त्यावयविमात्र-

वृत्तिचेष्टावदृत्तिजातिमत्त्वं शरीरत्वम् । हस्तत्वपृथिवीत्वद्रव्यत्व-

सत्त्वादिवारणाय प्रथमवृत्तयन्तम्, घटत्वादिवारणाय चेष्टाव-

वृत्तीति, घटशरीरसंयोगादिवारणाय जातिमत्त्वमिति <error>२९७४
</error><fix>॥२९७४॥</fix>
<bold>
शरीरी-</bold> देहावच्छिन्नात्मा १ भोगा (श्रयः २) वच्छेदकत्वं शरीरित्वं