This page has not been fully proofread.

सत्यन्तम्,
 
१२८ [व्रत] * सर्वलक्षणसङ्ग्रहः
यथा कुठारदारुसंयोगः । ईश्वरेच्छादिवारणाय
दण्डरूपादिवारणाय तज्जन्यजनकत्वमिति ॥ २९१४ ॥
व्याप्ति:- व्यापनम् १ साध्य (भाववदवृत्तित्वम् २ ) साधनयोर-
व्यभिचरितसंबन्धः ३ साधनसमानाधिकरणात्यन्ताभावाप्र-
तियोगिसाध्यसामानाधिकरण्यमिति ग्रं० ४ स्वाभाविक संबन्धः
व्याप्यत्वं - अव्याप्याभाववदवृत्तित्वम् १ साध्यवदन्यावृत्तित्वे
सति व्यायाश्रयत्वम् * २ न्यूनदेशवृत्तित्वम् ॥ २९२२ ॥
व्याप्यवृत्तित्वम् स्वसमानाधिकरणात्यन्ताभाव ( प्रतियोगि-
त्वम् १ ) प्रतियोगितानवच्छेदकधर्मवत्त्वम् ॥ २९२४ ॥
व्यायामः- स्वास्थ्योन्नतिसंपादनार्थं विधिपूर्वकमङ्गसञ्चालनम् ।
व्यवर्तकत्वं लक्ष्यवृत्तित्वे सतीतरभेदव्याप्यत्वम् ॥२९२६॥
व्यावहारिकत्वं-आगन्तुकदोषासहकृताविद्याकार्यत्वम्
 
१ ब्रह्म-
-
 
G
 
INNE
 
ज्ञानपूर्वाबाधितत्वे सत्यात्मज्ञानोत्तरसत्तास्फूर्तिशून्यत्वम् २९२८
व्यावृत्तिः तद्धर्मावच्छिन्नेतरभेदः ॥ २९३० ॥
व्यासङ्गः कार्यान्तर (नासक्तिः १) परित्यागेनैकपरत्वम् २९३२
व्यासज्यवृत्तित्वं एक (मात्रवृत्तिधर्मान०) त्वानवच्छिन्न पर्याप्तिमत्त्वं
व्युत्पत्तिः शक्तिप्रहजन्यसंस्कारः १ शब्दानामर्थावबोधक शक्ति
 
रिति ग्रं० २ समुदायशब्दस्यावयवशोऽर्थबोधकशक्तिः २९३६
व्रतं-नियमाभिधानम् १ क्रियाविषयकोनियमः २दीर्घकालानुपालनी-
यसङ्कल्पः३सम्यक्सङ्कल्पजनितानुष्ठेयक्रियाविशेषरूपमिति हेमाद्रौ