This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रह:
 
*
 
[व्यापा । १२७
 
व्यष्टिः पृथक्पृथगवभासमानः पदार्थः १ प्रत्येकवृक्षवदनेकबुद्धि
व्यसनं-इष्टानिष्टवस्तुषु चित्तसं (योजनम् ) लग्नम् । [विषयः
व्याकरणं· व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा यस्मिंस्तत् १ प्रत्यय-
विधानसामर्थ्यादर्थनिश्चयः २ अर्थविशेषमाश्रित्य स्वरप्रकृति-
प्रत्ययादिविशेषादीन्विदधत्पद खण्डार्थविशेषज्ञापको ग्रन्थः ३
 
,
 
वेदाङ्गत्वे सति शब्दसाधुताबोधकत्वं व्याकरणत्वम् ॥२८९७॥
व्याकरणप्रयोजनं- वैदिकपदसाधुत्वज्ञानेनोहादिकम् १ म्लेच्छा
मा भूमेत्यधेयं व्याकरणमिति महाभाष्ये ॥ २८९९ ॥
व्याख्यानं वक्तृता १ फलमाहात्म्योपासनप्रकारादिकथनमिति
ग्रं० २ पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना, आक्षे-
पस्य समाधानं व्याख्यानं पञ्चलक्षणम् ॥ २९०२ ॥
व्याघातः-विरुद्धसमुच्चयः १ परस्परविरुद्धधर्मयोरेकाधिकरणे
समुच्चयः २ असंबद्धार्थकवावयम् ३ यावज्जीवमहं मौनी ब्रह्म-
चारी च मे पिता, माता तु मम वन्ध्याऽऽसीदपुत्रश्च पितामहः ।
व्याजः-विभवाभाव: * १ अन्यफलसाधनतया स्वेष्टस्यान्यफ-
लसाघनत्वेन ज्ञापितस्याचरणम् ॥ २९०८॥
व्यापकत्वं - सर्व संबद्धत्वम् * १ अधिकदेशवृत्तित्वम् २ स्वाधि-
करणवृत्त्यन्ताभावाप्रतियोगित्वम् * ३ देशाद्यन्तरहितत्वम् ।
व्यापारत्वं तज्जैन्यत्वे सति त (त्सहायत्वम् १ ) ज्जन्यजनकत्वम्,
कारकेग जन्यत्वे सति तत्कारकजन्यक्रियां प्रतिजनकः ।
 
,