This page has been fully proofread once and needs a second look.

* सत्रेलक्षणसङ्ग्रहः *
 
[व्यति] १२५
 
<bold>वैश्वानरः-</bold> 'विराडूड्' वदस्य लक्षणमनुसन्धेयम् ॥ २८३४ ॥

<bold>
वैष्णवः-</bold> विष्णुमन्त्रोपासकः १ वैखानसाद्यागमोक्तदीक्षायुक्तः ।

<bold>
वंश:-</bold> अविछिन्नाधारः १ पितृपितामहादिरूपोत्पाद प्रबन्ध इति
 

ग्रं० २ पुत्रपौत्रपरम्परानुगतशरीर सन्ततिप्रवाहः ॥ २८३८ ॥

<bold>
व्यक्तिः-</bold> पदार्थ (भिव्यक्तिः १)
मात्रम् २ जात्याश्रयद्रव्यम् <error>२८४०
</error><fix>॥२८४०॥</fix>
<bold>
व्यङ्ग्य:-</bold> व्यञ्जनया बोविधितोऽर्थः ॥ २८४१ ॥

<bold>
व्यञ्जकः-</bold> हृद्गतभावप्रकाशकोऽभिनयः *१ स्वविषयेऽस्ति
-

प्रकाशते इत्यादिव्यवहारप्रतिबन्धकमात्रापनेता ॥ २८४४ ॥

<bold>
व्यञ्जना-</bold> प्रकटकारकक्रिया १ मुख्यार्थसंबद्धासंबद्धसाधारणमु-

ख्यार्थबाप्रहाद्य प्रयोज्यप्रसिद्धा प्रसिद्धार्थविषयकधीजनकत्वम्

<bold>
व्यतिरेकः-</bold> परस्परमर्थानागमः १ यदभावे यदभावः, यथा यत्र

यत्र सर्वप्राणिहिंसनशीलित्वे सति पशुत्वाकृतिविशिष्टा काचन

व्यक्तिर्न भवति तत्र तत्र सिंह प्रत्ययोपि न भवति २ विभिन्नत्वम्

<bold>
व्यतिरेकवैराग्यं-</bold> चित्तगतदोषाणां मध्ये पक्केभ्योऽपक्कान्व्य-

तिरेकेणावधार्य तज्जिहासा ॥ २८५१ ॥

<bold>
व्यतिरेकव्यभिचार :-</bold> कारणाभावे कार्यसत्त्वम् १ कार्या-

धिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वमिति मंग्रं० ॥ २८५३ ॥

<bold>
व्यतिरेकव्याप्तिः-</bold> हेत्वभावसाध्याभावयोर्व्याप्तिः १ साध्या-

भाव (पुरःसरत्वम् २) व्यापकी भूताभावप्रतियोगित्वम् <error>२८५६
</error><fix>॥२८५६॥</fix>
<bold>
व्यतिरेकसहचार:-</bold> कारणाभावे कार्याभावः ॥ २८५७ ॥
 
graik