This page has not been fully proofread.

* सत्रेलक्षणसङ्ग्रहः *
 
[व्यति] १२५
 
वैश्वानरः- 'विराडू' वदस्य लक्षणमनुसन्धेयम् ॥ २८३४ ॥
वैष्णवः विष्णुमत्रोपासकः १ वैखानसाद्यागमोक्तदीक्षायुक्तः ।
वंश:- अविछिन्नाधारः १ पितृपितामहादिरूपोत्पाद प्रबन्ध इति
 
ग्रं० २ पुत्रपौत्रपरम्परानुगतशरीर सन्ततिप्रवाहः ॥ २८३८ ॥
व्यक्तिः पदार्थ (भिव्यक्तिः १)
मात्रम् २ जात्याश्रयद्रव्यम् २८४०
व्यङ्ग्य:-व्यञ्जनया बोवितोऽर्थः ॥ २८४१ ॥
व्यञ्जकः- हृद्गतभावप्रकाशकोऽभिनयः ॐ १ स्वविषयेऽस्ति
-
प्रकाशते इत्यादिव्यवहारप्रतिबन्धकमात्रापनेता ॥ २८४४ ॥
व्यञ्जना प्रकटकारकक्रिया १ मुख्यार्थसंबद्धासंबद्धसाधारणमु-
ख्यार्थबाघप्रहाद्य प्रयोज्यप्रसिद्धा प्रसिद्धार्थविषयकधीजनकत्वम्
व्यतिरेकः- परस्परमर्थानागमः १ यदभावे यदभावः, यथा यत्र
यत्र सर्वप्राणिहिंसनशीलित्वे सति पशुत्वाकृतिविशिष्टा काचन
व्यक्तिर्न भवति तत्र तत्र सिंह प्रत्ययोपि न भवति २ विभिन्नत्वम्
व्यतिरेकवैराग्यं चित्तगतदोषाणां मध्ये पक्केभ्योऽपक्कान्व्य-
तिरेकेणावधार्य तज्जिहासा ॥ २८५१ ॥
व्यतिरेकव्यभिचार :- कारणाभावे कार्यसत्त्वम् १ कार्या-
धिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वमिति मं० ॥ २८५३ ॥
व्यतिरेकव्याप्तिः- हेत्वभावसाध्याभावयोर्व्याप्तिः १ साध्या-
भाव (पुरःसरत्वम् २) व्यापकी भूताभावप्रतियोगित्वम् २८५६
व्यतिरेकसहचार:- कारणाभावे कार्याभावः ॥ २८५७ ॥
 
graik