This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रहः *
 
[वेद] १२३
 
<bold>वृत्तिविषयत्वं-</bold> शक्तिलक्षणान्यतरज्ञानाधीनज्ञानविषयत्वम् ।

<bold>
वृत्तिव्याप्तिः-)</bold> विषयस्य स्वाकारवृत्त्या संबन्धः १ वृत्तिविष-

<bold>
वृत्तिव्याप्यत्वं-)</bold> यत्वम् २ वृत्त्युपहितचेतनविषयत्वमिति ग्रं० ३

विशिष्टशब्दादिप्रमाणबलात्तत्तद्विषयाकारधी समुन्मेषाभिव्यक्तत्वं

<bold>
वृद्धिः -</bold> संवर्धनम् १ अवयवोपचयः ॥ २७९९ ॥
 
A
 

<bold>
वेगत्वं-</bold> क्रियाजन्यत्वे सत्यन्यक्रियाजनकत्वम्। गुरुत्वादिवारणाय

सत्यन्तम् विभागादिवारणायाम्न्यक्रियाजनकत्वमिति ।

<bold>
वेदः --</bold> मीनशरीरावच्छिन्नभगवद्वाक्यम् १ ब्रह्ममुखनिर्गतधर्म-

ज्ञापकशास्त्रमिति पौराणिकाः २ सम्प्रदायानुसारेण स्वरादिवि-

शिष्टा या वर्णानुपूर्वीपरिपाटी सः ३ इष्टप्राप्त्यनिष्टपरिहार-

योरलौकिकमुपायं यो ग्रन्थो वेदयति सः । अलौकिक पदेन

प्रत्यक्षानुमाने व्यावर्त्येते इति सायणभाष्ये ४ धर्मब्रह्मप्रति-

पादकमपौरुषेयं प्रमाणवाक्यम् । भारतादावतिव्याप्तिवारणा-

यापौरुषेयमिति, आत्मादौ तद्दोषवारणाय वाक्यमितीति

प्रस्थानभेदे ५ मन्त्रब्राह्मणात्मकत्वं वेदत्वम् ६ शब्दतदुपजीवि-

प्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्य-

वाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वम् । व्यासादिचाक्षुषंजन्ये

भारतादौ दृष्टार्थकायुर्वेदादौ चातिव्याप्तिवारणाय सत्यन्तम् ७

वि(हि) दिताखिलशास्त्रार्थसर्वधर्मनिरूपणात्, दर्शना
नां
प्रमाणत्वाद्वेद इत्यभिधीयते ८ विद्यन्ते, ज्ञायन्ते, लभन्ते
 
-