This page has been fully proofread once and needs a second look.

[वृत्त
स्कारः ।
 
[ व्यङ्ग्य भानन्दः

<bold>विषयानन्दः-</bold> तत्तत्स्रक्चन्द नवनिता दिविषयाका रैकाप्ग्रबुद्ध्यभि-
<bold>विषयी-</bold> विषयासक्तः १ शास्त्रानुसारैहिक विषयभोक्तृत्वे सत्यामु-
ष्मिार्थ कर्मकर्ता *२ विषयिताश्रयः * ३ विषय ( निष्ठावरण-
निवर्तकत्वं विषयित्वम् ४) विभासकचैतन्यम् ॥ २७७७ ॥
<bold>विष्णुः-</bold> रजस्तमोगुणोपसर्जन कसत्त्वावच्छिन्न चैतन्यम् <error>२७७८</error><fix>॥२७७८॥</fix>
<bold>विसंवादः-</bold> प्रमाणान्तरेण बाधः १ प्रमाणाननुसरणत्वे सत्य-
न्यथा स्थितस्यार्थस्यान्यथा कथनत्वम् ॥ २७८१ ॥
<bold>विसंवादिभ्रमः -</bold> विफलप्रवृत्तिजनको भ्रमः ॥ २७८२ ॥
<bold>विस्मयः -</bold> नष्टगर्व: १ अपूर्ववस्तुदर्शनादिजन्यो मानसोल्लासः ।
<bold>विहितं-</bold> विधेयम् १ धर्मापादकं कर्म २ इष्टसाधनत्वेन वेदबोधित
वीतानुमानं अन्वयमुखेन प्रवर्तनानं विधायकमनुमानम् ।
<bold>वृत्तिः -</bold> सूत्रमात्रव्याख्या * १ शाब्दबोध हेतुपदार्थोपस्थित्य-
नुकूल: पदपदार्थयोः स्मार्यस्मारकभावसम्बन्धः * २ विषय-
चैतन्याभिव्यञ्ज कोऽन्तः[१^]करणाज्ञानयोः परिणाम विशेषः । क्रो-
धादिवृत्तावतिव्याप्तिवारणाय विषयचैतन्याभिव्यञ्जक
इति, चक्षुरादौ विषयचैतन्याभिव्यञ्ज केऽतिव्याप्तिवारणार्थ-
मन्तःकरणाशानयोः परिणामविशेष इति ॥२७९१॥
[^१ व्यावहारिकघटपटाद्यर्था काराऽन्तःकरणस्य परिणामात्मिका वृत्तिः,
प्रातिभ/भासिकशुक्तिरजताद्यर्थाकारा त्वज्ञानस्य परि०वृत्तिरिति विभागः ।
 
]