This page has not been fully proofread.

[वृत्त

स्कारः ।
 

 
[ व्यङ्ग्य भानन्दः
 

 
<bold>
विषयानन्दः-</bold> तत्तत्स्रक्चन्द नवनिता दिविषयाका रैकाप्रबुद्ध्यभि-

विषयी विषयासक्तः १ शास्त्रानुसारैहिक विषयभोक्तृत्वे सत्यामु-

ष्मिार्थ कर्मकर्ता २ विषयिताश्रयः * ३ विषय ( निष्ठावरण-

निवर्तकत्वं विषयित्वम् ४) विभासकचैतन्यम् ॥ २७७७ ॥

<bold>
विष्णुः-</bold> रजस्तमोगुणोपसर्जन कसत्त्वावच्छिन्न चैतन्यम् २७७८

<bold>
विसंवादः-</bold> प्रमाणान्तरेण बाधः १ प्रमाणाननुसरणत्वे सत्य-

न्यथा स्थितस्यार्थस्यान्यथा कथनत्वम् ॥ २७८१ ॥

<bold>
विसंवादिभ्रमः -</bold> विफलप्रवृत्तिजनको भ्रमः ॥ २७८२ ॥

<bold>
विस्मयः -</bold> नष्टगर्व: १ अपूर्ववस्तुदर्शनादिजन्यो मानसोल्लासः ।

<bold>
विहितं-</bold> विधेयम् १ धर्मापादकं कर्म २ इष्टसाधनत्वेन वेदबोधित

वीतानुमानं अन्वयमुखेन प्रवर्तनानं विधायकमनुमानम् ।

<bold>
वृत्तिः -</bold> सूत्रमात्रव्याख्या * १ शाब्दबोध हेतुपदार्थोपस्थित्य-

नुकूल: पदपदार्थयोः स्मार्यस्मारकभावसम्बन्धः * २ विषय-

चैतन्याभिव्यञ्ज कोऽन्तःकरणाज्ञानयोः परिणाम विशेषः । क्रो-

धादिवृत्तावतिव्याप्तिवारणाय विषयचैतन्याभिव्यञ्जक

इति, चक्षुरादौ विषयचैतन्याभिव्यञ्ज केऽतिव्याप्तिवारणार्थ-

मन्तःकरणाशानयोः परिणामविशेष इति ॥२७९१॥
 
S
 

१ व्यावहारिकघटपटाद्यर्था काराऽन्तःकरणस्य परिणामात्मिका वृत्तिः,

प्रातिभ/सिकशुक्तिरजताद्यर्थाकारा त्वज्ञानस्य परि०वृत्तिरिति विभागः ।